Book Title: Aagam 44 Nandisootra Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम (४४) प्रत सूत्रांक H गाथा |||| दीप अनुक्रम [3] नन्दीहारिभद्रीय वृचों ॥ ४ ॥ “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः) मूलं [-] / गाथा ||१|| जीवोत्पत्तिस्थानानीत्यर्थः, 'यु मिश्रणे' युवन्ति तैजसकार्मणशरीरवन्तः सन्तः ओदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः उक्तञ्च 'जोएण कम्मएणं आहारेह अणंतरं जीवो। तेण परं मीसणं जाव सरीरस्स निष्कत्ती ॥ १ ॥ ततश्व जगच्च जीवाश्च योन| यश्च जगज्जीवयोनयः विविधम्-अनेकधोत्पादाद्यनन्तधर्मात्मकं जानातीति विज्ञायकः जगज्जीवयोनीनां विज्ञायक २ इति समासः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह । तथा जगद् गृणातीति जगद्गुरुः यथोपलब्धजगद्वतेति भावना, अनेनापि स्वासम्पदमेवाह । तथा जगदानन्दः इह जगच्छब्देन संझिजङ्गमपरिग्रहः, तेषां सद्धर्मदेशनाद्वारेणानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानन्द इत्यनेन परार्थसम्पदमाह, तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः तस्य यथावस्थित-स्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनात् नाथवनाथ इति, अनेनापि परार्थसम्पदमिति । तथा जगद्वन्धुः इह जगच्छब्देन सकलप्राणिपरिग्रहस्तदव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद् बन्धुवत् बन्धुः, तथा चोक्तम्- 'सब्वे पाणा सब्वे भूया सब्वे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परितावेयव्वा ण उबदवेयच्या, एस धम्मे धुवे णितीय सासते समेच्च लोग खुदण्णेहिं पवेदिते' इत्यादि, अनेनापि परार्थसम्पदमिति । तथा 'जयति जगत्पितामह' इति इह जगच्छब्देन सकलसत्वपरिग्रह एव तेषां च कुगतिगमनभयापायरक्षणात् पिता धर्मो वर्त्तते, अतो जगत्पितामहः, तथोक्तम्- दुर्गतिप्रसृतान् जीवान्, यस्माद्वारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १ ॥ तस्यापि चार्थप्रणेतृत्वेन भगवान् पिता वर्तते, अतो जमत्पितामह इति, स्तवाधिकाराच पुनः क्रियाभिधानमदुष्टं, उक्तञ्च- 'सज्झायझाणतवओसहेसु उवएसथुइपूयाणेसु । सन्तगुणकितणेसु य न होंति पुणरुत्तदोसा भो || १ ||' अनेनापि परार्थसम्पदमाह । भगवानिति भगः समत्रैश्वर्यादिलक्षणः, तथा चोक्तम् मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~9~ जिन स्तुतिः ॥ ४ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 124