Book Title: Aagam 44 Nandisootra Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४४)
"नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........ मूलं [१] / गाथा ||४७...||
हारिभद्रीय
वृत्ता
HERE
नामुद्दया
॥ २६॥
प्रत सूत्रांक [१] गाथा ॥४७..||
ज्ञानयोरुपन्यास इति, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, 'जत्थ मतिणाणं तस्थ मुयणाणं' ति वचनात् , तथा| यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानानागतवर्तमानः सर्व एव, अप्रतिपतितेकजीवापेक्षया च षट्पष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण-"दो बारे विजयाइK गयस्स तिमऽन्ते अहव ताई । अइरेग नवियं गाणाजीवाण सम्बद्धं ॥१॥" यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः। सर्वव्यादिविषयमेवं श्रुतज्ञानमपि, यथा मतिज्ञानं परोक्ष एवं श्रुतज्ञानमपीति, तथा मतिज्ञानथुतज्ञानयोरेव अवध्यादिज्ञानभावादिति । आह-एवमपि मतिज्ञानमादौ किमर्थमिति, उच्यते, मतिपूर्वकत्वाद्विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतिज्ञानमिति, उक्तं च "मतिपुच्वं जेण सुयं तेणादीए मती विसिट्ठो वा । मतिभेओ व सुयं तो मतिसमणतरं भणियं ॥१॥" इति, पर्याप्तं विस्तरेण । तथा कालविपर्ययस्वामिलामसाधर्म्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिबानश्रुतज्ञानयोः स्थितिकाल: प्रवाहापेक्षया अतिपतितैकसत्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि अतः स्थितिसाधर्म्य, तथा यथैव मतिज्ञानश्रुतज्ञाने विपर्ययज्ञाने भवत एवमिदं मिथ्यादृष्टेर्विमंगज्ञानं भवतीति विपर्ययसाधर्म्य, तथा य एवं मतिज्ञानश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि (इति) भवति स्वामिसाधर्म्य, तथा विभंगज्ञानिनखिदशादेः सम्यग्दर्शनावाप्ती युगपदेव ज्ञानत्रयलाभसम्भवाल्लाभसाधर्म्य । तथा छबस्थविषयमावाध्यक्षसाधादवधिज्ञानानन्तरं मनःपर्यायज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञान छबस्थस्य भवत्येवं मनःपर्यायज्ञानमपि छबस्थस्यैवेति छमस्थसाधमे, तथा यथाऽवविज्ञान रूपिद्रव्यविषयमेवं मनःपर्यायज्ञानमपि सामान्येनेति विषयसाधर्म्य, तथा यथाऽवधिज्ञानं बायोपशमिके भावे तथा मन:
२६
दीप अनुक्रम [१३]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति:
~31~

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124