Book Title: Yoga Shastram
Author(s): Subodhsuri, Ruchaksuri
Publisher: Dharmbhaktipremsubodh Granthamala Prakashan Samiti

View full book text
Previous | Next

Page 791
________________ अष्टमः योगशास्त्रम्॥ प्रकाशः। 11७३६॥ निशाकरकलोकारं सूक्ष्मं भास्करभास्वरम् । अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत् ॥२५॥ स्पष्टः ॥२५॥ ततः-- | तदेव च क्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम् । क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः ॥२६॥ तदेव अनाहतमेव सूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतिर्ध्यायेत् ॥२६॥ एवं चप्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् ॥२७॥ स्पष्टः ॥२७॥ प्रकृतमुपसंहरति| इति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः। निषण्णमनमस्तत्र सिध्यत्यभिमतं मुनेः ॥२०॥ स्पष्टः ॥ २८ ॥ इति मन्त्रराजोऽनाहतमव्यक्तं चोक्तं । प्रकारान्तरेण परमेष्ठिवाचकां पदमयीं देवतां श्लोकद्वयेन निर्दिशतितथा हृत्पद्ममध्यस्थं शब्दब्रह्मैककारणम् । स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥२९॥ मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥३०॥ _ स्पष्टौ ॥२९-३०॥ तस्य ध्येयत्वे प्रकारान्तराण्याह-- पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत् कर्मधाते शशिप्रभम् ॥३१॥ ॥७३६

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843