Book Title: Yoga Shastram
Author(s): Subodhsuri, Ruchaksuri
Publisher: Dharmbhaktipremsubodh Granthamala Prakashan Samiti
View full book text
________________
योगशास्त्रम् ।
॥७३४ ॥
अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैदलैः ॥६॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलायेषु समग्रेषु मायाप्रणवपावितम् ॥७॥ तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाक्रान्तं कलाबिन्दुरम्यं प्रालेयनिर्मलम् ॥८॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्श पावनम् । ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥९॥ ग्रन्थीन् विदारयन्नाभिकन्दहृद्घष्टिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः॥ १०॥ अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामृतोर्मिभिः ॥ ११ ॥ ततः सुधासरः सूतषोडशाब्जदलोदरे । आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत् ॥१३॥ अथास्य मन्त्रराजस्याभिधेयं परमेष्ठिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम् ॥१४॥ तध्यानावेशतः सोऽहं सोऽहमित्यालपन्मुहुः । निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥ १५ ॥ ततो नीरागमद्वेषममोहं सर्वदर्शितम् । सुरार्च्य समवसृतौ कुर्वाणं धर्मदेशनाम् ॥ १६ ॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निर्धूतकल्मषः ॥ १७ ॥
COOKE th
अष्टमः प्रकाशः।
॥७३४ ॥

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843