Book Title: Yoga Shastram
Author(s): Subodhsuri, Ruchaksuri
Publisher: Dharmbhaktipremsubodh Granthamala Prakashan Samiti
View full book text
________________
योग. शाखम्।
अष्टमः। प्रकाशा
१७३८५
त्रिशुद्धया मनोवाकाय शुद्धया चतुर्थ तप उपवासः ॥३५॥ तथाएवमेव महामन्त्रं समाराध्येह योगिनः । त्रिलोक्याऽपि महीयन्तेऽधिगताः परमां श्रियम् ॥३६॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्र समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥३७॥
तियश्चः कम्बलशम्बलादयः। शेषं स्पष्टम् ॥३६-३७ ॥
प्रकारान्तरेणैनां विद्यामाहगुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम् ॥३०॥ ___ गुरुपञ्चकं परमेष्ठिपञ्चकं तनामानि विभक्त्या नमःपदेन च रहितानि “अरिहंतसिद्धआयरियउवज्ज्ञायसाहु" इत्येवलक्षणानि । शेषं स्पष्टम् ॥३८॥ तथाशतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चावर्ण जयन् योगी चतुर्थफलमश्नुते ॥३९॥
पइवर्ण 'अरिहंतसिद्ध' इति, चतुरक्षरं 'अरिहंत' इति अवर्ण अकारमेव मन्त्र जपन् चतुर्थफलं लभते, चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थ स्वल्पमेवोक्तं, मुख्यं तु स्वर्गापवर्गों ॥३८॥
एतदेवाहप्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गों तु वदन्ति परमार्थतः ॥४०॥
७३८॥

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843