SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ योग. शाखम्। अष्टमः। प्रकाशा १७३८५ त्रिशुद्धया मनोवाकाय शुद्धया चतुर्थ तप उपवासः ॥३५॥ तथाएवमेव महामन्त्रं समाराध्येह योगिनः । त्रिलोक्याऽपि महीयन्तेऽधिगताः परमां श्रियम् ॥३६॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्र समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥३७॥ तियश्चः कम्बलशम्बलादयः। शेषं स्पष्टम् ॥३६-३७ ॥ प्रकारान्तरेणैनां विद्यामाहगुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम् ॥३०॥ ___ गुरुपञ्चकं परमेष्ठिपञ्चकं तनामानि विभक्त्या नमःपदेन च रहितानि “अरिहंतसिद्धआयरियउवज्ज्ञायसाहु" इत्येवलक्षणानि । शेषं स्पष्टम् ॥३८॥ तथाशतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चावर्ण जयन् योगी चतुर्थफलमश्नुते ॥३९॥ पइवर्ण 'अरिहंतसिद्ध' इति, चतुरक्षरं 'अरिहंत' इति अवर्ण अकारमेव मन्त्र जपन् चतुर्थफलं लभते, चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थ स्वल्पमेवोक्तं, मुख्यं तु स्वर्गापवर्गों ॥३८॥ एतदेवाहप्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गों तु वदन्ति परमार्थतः ॥४०॥ ७३८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy