________________
योगशास्त्रम्
अष्टमा प्रकाश
॥७३९॥
स्पष्टः ॥४०॥ प्रकारान्तरेण पदमयीं देवतामाहNI पञ्चवर्णमयी पञ्चतत्वा विद्योधृता श्रुतात् । अभ्यस्यमाना सततं भवक्लेश निरस्यति ॥४१॥
श्रुतात् विधाप्रवादाभिधानात् पूर्वात् उध्धृता, सा च "हाँ ही हु हौं हूं: असिआउसा नमः" इत्येवंलक्षणा । | शेषं स्पष्टम् ॥४१॥ तथामङ्गलोत्तमशरणपदान्यव्यग्रमानसः। चतुःसमोश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ॥४२॥
तद्यथा-चत्तारि मङ्गलं, अरिहंता मंगल, सिद्धा मंगल साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नतो धम्मो लोगुत्तमो। चत्तारि | सरणं पवज्जामि अरिहंते सरणं पवामि, सिद्धे सरण पवज्जामि, साहू सरण पवज्जामि, केवलिपन्नत्तं धम्म सरण
पवज्जामि । चतुःसमाश्रयाणीति अर्हत्सिद्धसाधुधर्मसमाश्रयाणि ॥४२॥ ___ अथ पूर्वार्धेन विद्यामपरार्धेन च मन्त्रमेकेनैव श्लोकेनाहमुक्तिसौख्यप्रदां ध्यायेद्विद्यां पञ्चदशाक्षरोम् । सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् ॥४३॥
विद्यां पञ्चदशाक्षरामिति “ओं अरिहंतसिद्धसयोगिकेवली स्वाहा" इत्येवंलक्षणां । सर्वज्ञाभं स्मरेन्मन्त्रमिति "ओं श्री ही अहं नमः" इत्येवंलक्षणम् ॥४३॥
1७३९॥