________________
योग
शास्त्रम्
॥७४० ॥
सर्वज्ञाभभित्येतदेव भावयति —
वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवतो साम्यं सर्वज्ञेन विभर्ति यः ॥४४॥
स्पष्टः ||४४||
यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य वर्णसप्तकमादिमम् ॥ ४५ ॥
नमो अरिहंताण इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह -
पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्घातकं तथा । वर्णमालाञ्चितं मन्त्रं ध्यायेत्सर्वाभयप्रदम् ॥ ४६ ॥ पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाण" इतिलक्षणं इत्येको मन्त्रः । वर्णमालाञ्चितमिति द्वितीयः स चायं - “ओं नमो अर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ||४६ ||
मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराह—
ध्यायेत्सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके । ओं नमो अरिहंताणमिति वर्णानपि क्रमात् ॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रविम्बात्समापतत् ॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ ४९ ॥
Y Y CONCE
अष्टमः
प्रकाशः ।
11983411