________________
योगशास्त्रम्। ७४१॥
अष्टमा प्रकाशः।
| ततो भ्रमन्तं पोषु संचरन्तं नभस्तले । ध्वंसयन्तं मनोवान्तं सवन्तं च सुधारसम् ॥५०॥
तालुरन्ध्रण गच्छन्तं लसन्तं भूलतान्तरे । त्रैलोक्योचिन्त्यमाहात्म्यं ज्योतिर्मयमिवादभुतम् ॥५१॥ | इत्यमुं ध्यायतो मन्त्रं पुण्यमेकापचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥५२॥ मासैः षड्भिः कृतभ्यासः स्थिरीभूतमनास्ततः। निःसरन्तीं मुखाम्भोंजाच्छिखां धूमस्य पश्यति ॥ सवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते। ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥५४॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः। भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥५५॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः। मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरं ॥५६॥ ___ मायावीजं ही” इति । शेषं स्पष्टम् ॥४७-५६॥ तथाशशिबिम्बादिवोद्भूतां सवन्तीममृतं सदा । विद्यां वीं इति भालस्थां ध्यायेत्कल्याणकारणम् ॥
स्पष्टः ॥५७॥ तथाक्षीराम्भोधेविनिर्यान्तीं प्लावयन्ती सुधाम्बुभिः। भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम् ॥ स्पष्टः ५८॥ अस्या ध्याने फलमाह
॥७४१॥