________________
योगशास्त्रम् ।
७३७
यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं, तथापि तत्तद्रव्य क्षेत्रकालभावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । ओं ॥३१॥
प्रकारान्तरेण पदमयीं देवतां प्रस्तौति-
तथा पुण्यतमं मन्त्रं जगत्त्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥३२॥ स्पष्टः ||३२|| ततश्च-
अष्टपत्रे सिताम्भोजे कर्णिकायां कृतास्थितिम् । आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ ३३ ॥ | | " नमो अरिहंताणं' इति आद्यः सप्ताक्षरो मन्त्रः ||३३|| ततश्व
सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिन्तयेत् ॥ ३४ ॥
दिकपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयं नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । विदिक्पत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्कं - एसो पंच नमुकारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं । इति ध्यायेत् ||३४||
अस्य व्युष्टिमाह
त्रिशुध्या चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ ३५॥ 'अरहंताणं' इत्यपि प्रत्यन्तरे दृश्यते, एवमग्रेऽपि सवत्र दृश्यम् ॥
ME RECENT & SECSE
अष्टमः
प्रकाशः ।
॥७३७॥