________________
अष्टमः
योगशास्त्रम्॥
प्रकाशः।
11७३६॥
निशाकरकलोकारं सूक्ष्मं भास्करभास्वरम् । अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत् ॥२५॥
स्पष्टः ॥२५॥ ततः-- | तदेव च क्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम् । क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः ॥२६॥
तदेव अनाहतमेव सूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतिर्ध्यायेत् ॥२६॥ एवं चप्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् ॥२७॥
स्पष्टः ॥२७॥ प्रकृतमुपसंहरति| इति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः। निषण्णमनमस्तत्र सिध्यत्यभिमतं मुनेः ॥२०॥
स्पष्टः ॥ २८ ॥ इति मन्त्रराजोऽनाहतमव्यक्तं चोक्तं । प्रकारान्तरेण परमेष्ठिवाचकां पदमयीं देवतां श्लोकद्वयेन निर्दिशतितथा हृत्पद्ममध्यस्थं शब्दब्रह्मैककारणम् । स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥२९॥ मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥३०॥ _ स्पष्टौ ॥२९-३०॥ तस्य ध्येयत्वे प्रकारान्तराण्याह-- पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत् कर्मधाते शशिप्रभम् ॥३१॥
॥७३६