________________
योगशास्त्रम् ।
॥७३५॥
स्पष्टाः ॥६- १७ ॥ पुनरपि प्रकारान्तरेण पदमयीं देवतां पञ्चभिः श्लोकैराह— यद्वा मन्त्राधिपं धीमानूर्ध्वाधरेफसंयुतम् । कलाविन्दुसमाक्रान्तमनहितयुतं तथा ॥ १८ ॥ कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम् । गगने संचरन्तं च व्याप्नुवन्तं दिशः स्मरेत् ॥ १९ ॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भ्रूलतान्तरे । स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भोलमण्डले ॥२०॥ निर्यातं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे ॥२१॥ संचरन्तं नभोभागे योजयन्तं शिव श्रिया । सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥२२॥
अहं । स्पष्टाः । याहु:- "अकारादि हकारान्तं रेफमध्ये सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स तत्ववित् ॥१॥” इति ॥ २२॥
मन्त्रराजस्य ध्याने फलमाह-
महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः । तदैवानन्दसंपद्भूर्मुक्तिश्रीरुपतिष्ठते ॥२३॥ स्पष्टः ||२३|| अनन्तरविधिमाह
रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्यं विचिन्तयेत् ॥२४॥
स्पष्टः ||२४|| ततः
अष्टमः प्रकाशः ।
॥७३५॥