Book Title: Yoga Shastram
Author(s): Subodhsuri, Ruchaksuri
Publisher: Dharmbhaktipremsubodh Granthamala Prakashan Samiti

View full book text
Previous | Next

Page 795
________________ योग शास्त्रम् ॥७४० ॥ सर्वज्ञाभभित्येतदेव भावयति — वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवतो साम्यं सर्वज्ञेन विभर्ति यः ॥४४॥ स्पष्टः ||४४|| यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य वर्णसप्तकमादिमम् ॥ ४५ ॥ नमो अरिहंताण इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह - पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्घातकं तथा । वर्णमालाञ्चितं मन्त्रं ध्यायेत्सर्वाभयप्रदम् ॥ ४६ ॥ पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाण" इतिलक्षणं इत्येको मन्त्रः । वर्णमालाञ्चितमिति द्वितीयः स चायं - “ओं नमो अर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ||४६ || मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराह— ध्यायेत्सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके । ओं नमो अरिहंताणमिति वर्णानपि क्रमात् ॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रविम्बात्समापतत् ॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ ४९ ॥ Y Y CONCE अष्टमः प्रकाशः । 11983411

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843