Book Title: Yoga Shastram
Author(s): Subodhsuri, Ruchaksuri
Publisher: Dharmbhaktipremsubodh Granthamala Prakashan Samiti

View full book text
Previous | Next

Page 756
________________ योगशास्त्रम् । ॥७०१ ॥ द्वाविंशति दिनानि वहति वायौ द्विषष्ट्यधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशतिं दिनानि वहति वायौ चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्ट्यधिकशतात्रयाणां षट्कानामपनयने एतदेव भवति ॥ ११० ॥ तथा- तथैव वायौ वहति चतुर्विंशतिवासम् । विंशत्यभ्यधिके मृत्युर्भवेद्दिनशते गते ॥१११॥ चतुर्विंशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णां षट्कानामपनयने एतदेव भवति ॥ १११ ॥ तथा- पञ्चविंशत्यहं चैवं वायौ मास ये मृतिः । मासद्वये पुनर्मृत्युः षडविंशतिदिनानुगे ॥ ११२॥ पञ्चविंशति दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां षट्कानामपनयने एतदेव भवति । षड्विंशति दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथा--- सप्तविंशत्यहवहे नाशो मासेन जायते । मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥११३॥ सप्तविंशति दिनानि वहति वायौ मासेन मृत्युः । अष्टाविंशति दिनानि वहति वायौ मासार्धेन मृत्युः ॥ ॥११३॥ तथा- एकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि । त्रिंशद्दिनीचरे तु स्यात्पञ्चत्वं पञ्चमे दिने ॥ ११४ ॥ पनमः प्रकाशः । 1190211

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843