Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 12
________________ व्युत्पत्तिवादः [ कारके भावस्तथापि अभेदान्वयस्थले नीलो घट इत्यादौ प्रतियोगिन एवानुयोगित्वेन दोषादिति चेत्-अत्रोच्यते । धर्मविशिष्ट: संसर्गः संसर्गमय दिया भासते । वैशिष्ट्यं स्वावच्छिन्नानुयोगितानिरूपकत्वस्वेतरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । एवशब्दस्थले च व्यवच्छेदत्व धर्मान्ययोगत्वधर्मावादाय समन्वयः । नन्वेवमपि पशुपदे लाग़लत्वम दाय लोमप्रतियोगिकसंसर्गेऽपि शक्तिभास्ये धर्मविशिष्टसंसर्गत्वरूपोद्देश्यतावच्छेदकस्य सत्त्वेऽप्याकाङ्क्षाभास्यत्वरूपविधेयस्याभावेनोद्देश्यतावच्छेद व्यापकत्वस्याकाङ्क्षाभास्यत्वरूपे भङ्गापत्तिः । राज्ञो राजा राजराज इत्यादौ वाक्ये समासे स्वस्वामिभावरूपसंसर्गस्य राजत्वे राजत्वभेदाभावेनाकाङ्क्षाभास्यत्वानापत्तिश्च । समवायेनाभावो नास्तीत्यादौ नञर्थाभावेऽभावपदार्थप्रतियोगिकस्य स्वनिष्ठप्रतियोगिताकत्वस्याभावत्वप्रतियोगिकर य स्वावच्छिन्नप्रतियोगिताकत्वस्य च संसर्गस्याकाङ्क्षाभास्यत्वानापत्तिरच प्रतियोगितावच्छेदकस्याभावत्वस्यानुयोगितावच्छेदकाभावत्वभिन्नत्वाभावादभावत्वनिष्टप्रतियोगितायाश्च निरवच्छिन्नत्वादिति चेत्-न । उपस्थितीयविशेष्यताविशिष्टः संसर्ग इत्यर्थेनादोषात् । वैशिष्टयञ्च स्वप्रयोज्य विशेष्यतानिरूपकत्वस्वनिरूपितत्वाभाववदुपस्थितीयविषयताप्रयोज्यप्रकार तानिरूपकत्वोभयसम्बन्धेन । पश्यादिस्थले च समवायसम्बन्धीयप्रकारताविशेष्यताप्रयोजकयोरुपस्थितीयघटत्वघटनिष्ठयोः प्रकारताविशेष्यतयोः लाग़लनिष्ठविशेष्यतालोमनिष्ठप्रकारताप्रयोजकयोरुपस्थितीयलाङ्गललोमनिष्ठविशेष्यतयोश्च निरूप्यनिरूपकभावात्। राज्ञो राजेत्यादौ समवायेनाभावो नास्तीत्यादावपि प्रतियोग्यनुयोगिवाचकविभिन्नराजपदजन्योप स्थतीयराजनिष्ठविषयतयोरभावनपदजन्योपस्थितीयाभावनिष्ठविषयतयोश्च शाब्दबोधीयप्रकारताविशेष्यताप्रयोजकयोरभिन्नतया निरूप्यनिरूपकाभावविरहात् । ना च अभावत्वप्रतियोगिकस्वावच्छिन्नप्रतियोगिताकत्वसंसम्स्यासंग्रह एव । अभावपदजन्योपस्थितीयाभावत्वनिष्ठविषयताया न दजन्योपस्थितीयाभावनिष्ठविषयतानिरूपिताभावत्वनिष्ठविषयताभेदे मानाभावेनाभावनिष्ठ

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 368