Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
प्रथमा ] . जयाऽलङ्कृतः क्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्। साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीकत्वं साजा
--स्वसमानविर्भाक्तकत्वञ्चेति । विभक्तिविभाजकेति । स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्वमित्यर्थः ।
ननु किमिदं विभक्तिविभाजकत्वम् ? न तावद्विभक्तित्वविशिष्टत्वं स्वव्याप्यत्वस्वव्या' याव्याप्यत्वोभयसम्बन्धेन । विभक्तित्वव्याप्यसुप्त्वव्याप्यत्वेन प्रथमात्वादेविभक्तिविभाजकत्वानापत्तेः । नाच विभक्तित्वव्याप्यत्वमेव विभक्तिपिभाजकत्वमिति प्रथमात्वादौ नाव्याप्तिरिति वाच्यं, सुत्वादीनामपि विभक्तित्वव्याप्यत्वेन तत्त्वापत्तेः । न चेष्टापतिः । आकाशत्वादावपि तथा सति पदार्थविभाजकत्वस्यैप्टव्यतया आकारात्मसम्मान पदार्थविभानकोपाधि रिति मुक्तावलीप्रत्यक्षखण्डोक्तग्रन्थस्यासङ्गत्यापत्तेः । नन्वत्र विभक्तिपः सुप्परम् । तथा च सुब्विभाजकधमणेत्यर्थः । सुब्बिभाजकत्वञ्च सुप्ताव्याप्यत्वे सति सुप्त्वव्याप्यत्वमिति न प्रथमात्वादावव्याप्तिरितिचेत्-, । सुप्त्वव्याप्यसर्वनामस्थानत्वव्याप्यत्वेन तस्या दुर्वारत्वात् । न च नपुंगकप्रकृतिकस्वादौ सर्वनामस्थानत्वाभाववति प्रथमात्वस्य सत्त्वेन तदव्याप्यताददोष इति वाच्यं, टादिसुप्पय॑न्तस्थितेन सुप्त्वव्याप्येनाऽऽप्त्वेन व्याप्यत्वात् तृतीयात्वादावप्याप्तेर्दुरित्वात् । ___अचोच्यते--गुप्त्वविशिष्टत्वं सुप्विभाजकत्वम् । वैशिष्ट्यञ्च स्वव्याप्यत्वस्वव्याप्याव्या'यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्यायविशिष्टभिन्न वमपि देयम् । तत्र वैशिष्टचं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । प्रथमात्वादौ सुप्त्वस्य स्वव्याप्यत्वं स्वव्याप्यविशिष्टभिन्नं यत्स्वव्याप्यन्तदव्याप्यत्वमप्यस्तीति लक्षणसमन्वयः । प्राप्त्वं तु तृतीया वविशिष्टमेव । उदासीने घटत्वादावतिव्याप्तिवारणाय प्रथमः सम्बन्धः । न च स्वस्यापि स्वव्याप्यत्वेन सुप्त्वेऽतिव्याप्तिः । अाद्य

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 368