Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
प्रथमा ]
जयाऽलङ्कृतः
त्यमिति कथनेऽपि सत्यभावः । सुमुस्त्वविशिष्टसंख्यावत्त्व सुब्विभाजकत्वम् । संख्यायां सुप्त्ववैशिष्टयं स्वव्यापकत्वस्वव्याप्यवृत्तित्वस्वाव्याप्यावृत्तित्वस्वव्याप्यविशिष्टभिन्नत्वैतच्चतुष्टयसम्बन्धेन । व्याप्यतावच्छेदकः स्वरूपसम्बन्धो व्यापकतावच्छेदकश्च स्वाश्रयाश्रयत्वसम्बन्धः । सा च सङ्ख्या प्रथमात्वादिषु सप्तमु वर्तमाना सप्तस्वसंख्या तद्वत्त्वं प्रथमात्वादिषु सम्तसु । यत्र यत्र स्वरूपसम्न्धेन सुप्त्वन्तत्र तत्र स्वाश्रयाश्रयत्वसम्बन्धेन प्रथमात्वादिनिष्ठं सतत्वनिति व्याप्तिः। तस्याञ्च सङ्ख्यायां सुप्त्वस्य व्यापकत्वं तस्य व्याप्यं प्रथमात्वादि तवृत्तित्वं तस्याव्याप्यं घटत्वादि तदवृत्तित्वं तस्य व्याप्यं प्रथमात्वादि तद्वैशिष्टयन्नास्ति। यतो वैशिष्टयं स्ववृत्तित्वस्वेतरस्वसमानाधिकरणवत्तित्वोभयसम्बन्धेन । तत्राद्यसम्बन्धसत्त्वेऽपि द्वितीयो नास्तीति तद्विशिष्ट भिन्नत्वं सङ्ख्यायामिति लक्षणसमन्वयः । प्रथमात्वादिगतषट्त्वनिरासाय स्वव्यापकत्वम् । सुत्वसहितप्रथमात्वादिगताष्टत्ववारणाय स्वच्याप्यविशिष्टभिन्नत्वम्बोध्यमित्यपि के चित् ।
न तु समानानुपूर्वीकत्वमिति । तथा सति हि स्वप्रकृतिकविभक्तिसमानानपर्वीकविभक्तकेनेत्यर्थस्स्यात् । तथा च वेदाः प्रमाणमित्यादौ दोपः । स्वस्थानापीकवच स्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नाघटितत्वस्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नाघटितत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्त्वोभयसम्बन्धेन । स्वविशिष्टत्वं यथा घटसमानानुपूर्वीको घटस्तत्र स्वं घटस्तद्घटको कारो घशब्दः टशब्दः टक रोऽकारश्च । तदवृत्तिः श्रावणप्रत्यक्षविषयतावच्छेदको धर्मः पत्वादिस्तदव च्छन्नपकाराद्यघटितत्वं घटशब्दे । स्वस्मिन् घटशब्दे द्वितीयो घटशब्दः पूर्वोक्तसम्बन्धेन वर्तत इति तत्सम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्त्वम यस्तीति लक्षणसमन्वयः । घटशब्दे नीलघटसमुदायसमानानपीकत्वव। रणाय द्वितीयः सम्बन्धः । तत्र समुदाये हि तेन सम्बन्धेन घटशब्दस्यावर्तनात्तत्समुदायनिरूपिततत्सम्बन्धावच्छिन्नवृत्तितावत्त्वस्य घटशब्देऽभावः । लममता समरसत्यादीनाञ्च न समानानुपूर्वीकत्वम् । ताल

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 368