Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 16
________________ व्युत्पत्तिवादः [ कारके संसर्गमर्यादया भासते यथा नीलो घटो नीलघटमानयेत्यादौ घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात्। स्वसमानविभ पदप्रयोज्यप्रकारतानिरूपितत्वविशिष्टमाकाङ्क्षाप्रयोज्यत्वं-विधीयते । प्रातिपदिकवैशिष्टयं पूर्ववत् । निरूपितत्ववैशिष्टयं सामानाधिकरण्येन । न च क्रियाविशेषणस्थलीयाभेदसंसर्गताया असंग्रह इति वाच्यम् । इप्टापत्तेः । तत्र नियामकान्तरस्यैव वक्ष्यमाणत्वात् । न चापिप्पलीत्यादिपूर्वपदार्थप्रधानसमासे व्यभिचारस्तत्रैकदेशिसमासस्य प्रत्याख्यानेन पूर्वपदार्थार्द्धानुयोगिकपिप्पलीरूपोत्तरपदार्थप्रतियोगिकाभेदस्य संसर्गमर्यादया भासमानत्वादिति बाच्चं, अन्तरसम्बन्धस्थाने.. स्वाव्यवहितोत्तरत्वस्य पूर्वोक्तसम्बन्धद्वयसहितस्यान्यतमत्वेन प्रवेशनीयत्वात् । पिप्पल्यादिपदस्यैव पिप्पल्य‘दौ लक्षणा । पूर्वपदञ्च तत्रैव तात्पर्यग्राहकमित्यस्य वक्ष्यमाणत्वेनाभेदस्याकाङ्क्षाभास्थस्वाभाबाच्च । __न तु विरुद्धविभक्तिमदिति । विरत्वज्य स्वप्रकृतिकविभक्त्यपेक्षया बोध्यम् । तत्त्वञ्च तादृशविभक्तिनिष्ठो यः प्रथमात्वाद्यन्यतमस्तदभाववत्त्वम् । यथा नीलस्य घट इत्यादौ घटप्रकृतिकसुविभक्तिनिष्ठः प्रथमात्वाद्यन्यतमः प्रथमात्वन्तदभाववत्त्वं नीलप्रकृतिकङस्विभक्तौ ।। तत्र हेतुमाह--नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वादिति । प्रयोज्यत्वं सप्तम्यर्थः । तस्य स्वप्रकारकत्वसम्बन्धेनानुभवेऽन्वयः । अनुभवेविरुद्धत्वञ्चानुभवविषयत्वाभावरूपम् । तथा च नीलघटाभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्व प्रकारको यः सर्वानुभवस्तद्विषयत्वाभालाटिनार्थः । नीलबहाभेदान्वयबोधो नीलस्य घट इत्यादिवाक्यप्रयोज्य... इत्याकारकानुभवाभावादिति भावः । प्रातिपदिकवैशिष्ट्यनियामकसम्बन्धघटकस्वसमानविनक्तिकत्वं किमित्याशङ्कायामाह

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 368