Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
व्युत्पत्तिवादः
[ कारके भासते । स च कचिदभेदः । कचिच्च तदतिरिक्त एवाधाराधेयप्रति
त्वोद्देश्यतावच्छेदके प्रवेशानहत्वात्। घटो सास्तीति नेत्यत्र घटसत्ताभावाभावः प्रतीयते । नञ्द्वयनिष्ठवृत्तिज्ञानयोः समानाकारकतया तदीयविषयतयोरभावद्वयोपस्थितिद्वयविषयताप्रयोजकतया नअर्थाभावत्वनिष्ठप्रकारताप्रयोजकोप स्थितीयविषयताप्रयोजकवृत्तिज्ञानीयविषयताया अपरनअर्थाभावनिष्ठविशेष्यताप्रयोजकोपस्थितिविषयताप्रयोजकवत्तिज्ञानीयविषयतानिरूपितत्वाभावविरहेण स्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्यासंग्रहस्तु नम्पाद्यः । तत्र घटसत्ताभावत्वस्यैवावच्छिन्नप्रतियोगितयाऽन्वयेन तनिष्ठप्रकारताप्रयोजकत्वस्य परम्परया घटनिष्ठवृत्तिज्ञानीयविषयताया अपि सत्त्वेन तस्याश्चाभावनिष्ठविशेष्यताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितत्वविरहेणापत्त्यभावादिति विक।
स च संसर्गः क इति जिज्ञासायामाह--क्वचिदभेद इत्यादि । आधाराधेय इत्यादेः प्रत्येक भावेत्यत्रान्वयेन प्राधाराधेयभावः प्रतियोग्यनुयोगिभावो विषयविषयिभाव इत्यर्थः । यद्यपि न्यायसिद्धान्ते प्राधाराधेयभाव इत्यादेः समुदितस्य न सम्बन्धता क्वचिदस्ति तथापि वैयाकरणमतेनास्य ग्रन्थस्य सत्त्वान्नासंगतिः । तन्मते 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, द्विष्ठ' इत्यादिभाष्यात् प्रतियोग्यनुयोगिनिष्ठस्यैव आधारतानिरूपिताधेयतेत्यादि क्रमेण समुदायस्य सम्बन्धत्वात् । भूतले घटः, घटो नास्ति, घटज्ञानमित्यादौ क्रमेण तेषां सम्बन्धानां प्रतीतिः । नप न्यायमतेनैव आधारत्वमाधेयत्वं प्रतियोगित्वमनयोगित्वं विषयत्वं विषयित्वं सम्बन्ध इत्यर्थसम्भवेनायं ग्रन्थोऽस्तु स्वरूपसम्बन्धेनाधारे निरूपकत्वसम्बन्धेनाधेये सत्त्वेनाधारत्वादेरपि द्विष्ठत्वस्योपपादनसम्भवादिति वाच्यं, अनुयोगिनिष्ठस्यैव सम्बन्धत्वेनाधेयत्वानुयोगित्वविषयित्वानां सम्बन्धत्वेऽप्याधारत्वप्रतियोगित्वविघयत्वानां संसर्गतया क्वचिदप्यभानात् । यद्यपि द्विष्ठत्वाभावेनाभेदस्य वैयाकरणमते सम्ब

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 368