Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 13
________________ प्रथमा ] जयाऽलङ्कृतः विषयतानिरूपित वादिति वाच्यम् । अभावस्यैव स्ववृत्त्यभावत्वानच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नञर्थाभावेऽन्वयात्। सवप्रयोजकवृत्तिज्ञानीयविपयत्वानिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वसम्बन्धस्य द्वितीयसम्बन्धस्थाने निवेशनीयस्वाच्च । अभावपदनिष्ठवृत्तिज्ञानीयविपयताया नपदनिष्ठवृत्तिज्ञानीयविषयतया निरूप्यनिरूपकभावविरहणासङ्ग्रहासम्भवात् । नच समवायस्यैकत्वेन घट इत्यादौ विभक्त्यर्थंकत्वनियोगिकाकाङ्क्षाभास्यसमवायादभिन्नस्य घटत्वप्रतियोगिकसमवायस्य वतिभास्यस्य संग्रहापत्तिः । एकत्वप्रतियोगिकसमवायस्योपस्थितीयविषयताविशिष्टत्वे घटत्वप्रतियोगिकस्य तस्य न तत्त्वमित्यस्य वक्तुमशक्यत्वादि ते वाचम् । समवास्यैकत्वे एकत्वप्रतियोगिकसमवाय आकाङ्क्षाभास्यो घटत्वप्रतियोगिकः समवायो नाकाङ्क्षाभास्य इत्यस्यापि वक्तुमशक्यतयेप्टर वस्यैवाङ्गीकरणीयत्वात् । न च चटत्वनिष्ठप्रकारतानिरूपिता समवायनिष्ठा संसर्गता अाकाङ्क्षाप्रयोज्येति व्यवहारापत्तिः, तस्या घटपदनिष्ठवृत्तिप्रयोज्यत्वस्यैव सत्त्वेनेप्टापत्तेरयोगात् । निरुक्तोपस्थितीयविषयता विशिष्टस सर्गनिष्ठसंसर्गताया एवाकाङ्क्षाप्रयोज्यत्वादिति वाच्यं, उपस्थितीयविषयताविशिष्टा संसर्गता आकाङ्क्षा प्रयोज्यत्यत्रैव तात्पर्यात् । वैशिष्ट्यं स्वप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोजकवृत्तिज्ञानीयविषयत्वानिरूपितवत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन। समवायैकत्वेऽपि संसर्गतयोर्भेदेनाकाङ्क्षाप्रयोज्यत्वाप्रयोज्यत्वयोरुप पत्तेरिति दिक् । वत्तिज्ञानीयविपयत्वाप्रयोज्या संसर्गता अाकाङ्क्षाप्रयोज्या। उपस्थितीयविषयत्वाप्रयोज्या शाब्दबोधीया संसर्गता आकाङ्क्षाप्रयोज्येत्याद्यपि वक्तुं शक्यत इति केचित् । ल । नीलो घट इत्यादिवाक्यजन्यज्ञानविषयोऽभेदो वृतिभास्य पाकाङ्क्षाभास्यो वेति संशये नैयायिकेनाकाङ्क्षाभास्य इत्युच्यते । मीमांसकेन वृत्तिभास्य इत्युच्यते । तस्मिन् समये वृत्तिभास्यत्वस्य वृत्त्यभास्यत्तस्य वा निश्चयाभावेन वृत्त्यभास्यत्वादेराकाङ्क्षाभास्य

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 368