Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
प्रथमा ]
जयाऽलङ्कृतः
तः
लान्योगिकलो प्रतियोगिकसंसर्गस्य शक्तिभास्यस्याकाङ्क्षाप्रयोज्यशाब्दबोधीयविषयत श्रयत्वाभावेन निरुक्तव्यापकत्वानुपपत्तिस्स्यादत एकपदार्थेपरपदार्थस्येत्य नयोस्संसर्गविशेषणत्वम् । न चानुमितौ प्रत्यक्षे च भूतलं घटवदित्यादौ स्तलानुयोगिकघटप्रतियोगिकसंयोगादौ तादृशसंसर्गत्वरूपोहेश्यतावच्छेदकस्य सत्त्वेऽपि विधेयभूतस्य निरुक्तविषयताश्रयत्वस्याभावेन व्यापकत्वानुपपत्तिस्तदवस्थैवेति वाच्यम् । एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंस वित्तिसंसर्गताख्यशाब्दबोधीयविषयतामुद्दिश्याकाङ्क्षाप्रयोज्य
वस्यैव विधाने नानुपपत्त्यभावात् । न च निरुक्तविषयतायास्तेन रूपेणाभानात् कथं तेन येणोद्देश्यतेति चेत्-न। उद्देश्यताविधेयतयोविशेष्यताप्रकारतानात्मकतयोद्देश्यत्वे उद्देश्यतावच्छेदकरूपेण भासमानत्वस्यातन्त्रत्वात् । +- अथकपदार्थ इत्यत्रत्यैकत्वस्यापरपदार्थ इत्यत्रत्यापरपदार्थस्य च कुत्रान्वयः--पदे पदार्थे वा ? नाद्यः । तथा सत्येकं यत्पदन्तदर्थानुयोगिकोऽपरं यत्पदन्तदर्थप्रतियोगिकस्संसर्ग इति बोधः । तत्रापरत्वं भेदः । स च यद्येकपदत्वावच्छिन्न प्रतियोगिताकस्तदाऽप्रसिद्धिरेकपदत्वस्य पदमात्रवृत्तित्वात् । यद्येकपदनिष्ठप्रतियोगिताकस्ताव्यावर्तकत्वं द्वित्वादिनैकपदनिष्ठप्रतियोगिताकभेदस्य स्वस्मिन्नपि सत्त्वात् । न च पदविशिष्टः संसर्ग आकाङ्क्षाभास्यः। वैशिष्ट्यं स्वार्थानुयोगिकत्वं स्वनिप्ठप्रतियोगिताकभेदवत् यत्पदन्तर्थप्रतियोगिकत्व मित्युभ्यसम्बन्धेन । तत्र भेदस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक इति ग्रन्थकृतस्त त्पर्य्यमिति वाच्यम् । घटपदपशुपदादिस्थले घटत्वादिसंसर्गस्थ व्यवच्छेदेऽ पे एवपदस्थले दोषात् । तत्र हि नान्ययोगव्यवच्छेदत्वावच्छिन्ननिरूपित शक्तिरन्ययोगव्यवच्छेदाप्रसिद्धेः । किन्तु अन्ययोगे व्यवच्छेदे च खण्डशः शक्तिः । व्यवच्छेदे अन्ययोगस्य स्वनिष्ठप्रतियोगिताकत्वरूपः संसर्ग आकाङ्क्षाभास्यः। तत्र पदान्तरस्याभावेन तत्संसर्गस्यासंग्रहापत्तिः । नान्त्यः । तत्पक्षे यद्यपि आद्यपक्षोक्तदोषद्वयवारणाय पदार्थविशिष्टः संसर्ग इत्यत्रैव तात्पर्य वक्तुं शक्यते । वैशिष्ट्यञ्च स्वानुयोगिकत्वस्वेतरार्थप्रतियोगिकत्वोभयसम्बन्धेन। एवस्थले पदार्थयोरन्ययोगव्यवच्छेदयोर्भेदेन दोषा

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 368