Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 7
________________ संशोधकीयं सम्पादकीयं च सार्धकोटित्रयोकप्रमितसाहित्यसूत्रणसूत्रधार-मनीषिमूर्धन्य-सूरिपुङ्गव-महज्ज्योतिर्धरकलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यभगद्विरचिताऽभिधानचिन्तामणिनाममालाया अनुपलब्धा व्युत्पत्तिरत्नाकरटीका विद्वज्जनवल्लभानां धीमतां करकमलेष्वर्पतामस्माकमतीवातीवानन्दो बोभूयते ॥ एतत्परमानन्दे कारणं किम् ? प्रारम्भतः प्रारभे जिनशासनशणगारपरमपूज्याचार्यभगवच्छ्रीमद्विजयचन्द्रोदयसूरीश्वराणां, परमपूज्यप्रगुरुवराणां, परमपूज्यगुरुवराणां चाऽजस्त्रं प्रेरणया कृपया च प्राचीनार्वाचीनतालपत्रकागदपत्रमयानां हस्तलिखितानां पुस्तकानां पठन-लिखनकार्यारम्भः प्रारब्धः ॥ समये समये प्रकाशिताप्रकाशितसुलभदुर्लभग्रन्थानां परिचयाय किञ्चित् संस्कृत-प्राकृतादिसाहित्यैतिह्यं पठितं विलोकितं च ॥ अपि च पूर्वोक्तपूज्यगुरुवराणां सान्निध्येऽमूल्यमौलिकग्रन्थानां मुद्रित-हस्तलिखितग्रन्थानां किञ्चिदत्युपयोगी आवश्यकश्च परिचयः कृतः, तदैव तेषामनुभवप्राचुर्यमज्ञायि, ज्ञातं चाऽस्माकं गुरुवरा गुरुवरा एव ॥ एकदा जामनगरे नगरे तत्रभवतां प्रगुरुवराणां प्रतिकूलशरीरस्वास्थ्ये जाते परमपूज्यार्यश्रीमद्विजयचन्द्रोदयसूरीश्वरमहाराजा अन्यमुनयश्च तत्राऽऽगताः सन्तः स्थिरताभाजोऽभवन् । तस्मिन्नवसरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्काया अभिधानचिन्तामणिनाममालासहितव्युत्पत्तिरत्नाकरटीकाया हस्तलिखितकागदप्रतेरेका प्रतिकृतिः (झेरोक्ष) दर्शनाय पठनाय चाऽऽगता । पूज्याचार्यवर्याः प्रतेराद्यन्तभागं पठितवन्तः, आदिभागस्थिताः प्रारम्भिकलोकाः पठ्यमाना आसन्। अद्यावधि मनसीयमेव ग्रन्थिरासीद्- यद् एतन्नाममालाया याः काश्चिदपि टीकाः, ताः श्रीसिद्धहेमचन्द्रशब्दानुशासननामव्याकरणमधिकृत्यैवेति, तदियमपि (व्युत्पत्तिरत्नाकरटीकाऽपि) तथैवेति, परं तु यदा- "श्रीपाणिनीयोक्तिभिः" इति पङ्किदृष्टा पठिता श्रुता च, तदाऽवगतमियं टीका पाणिनीयव्याकरणानुसारिणीति । गुरुवरप्राप्तपाणिनीयव्याकरणसंस्कारोऽहमस्याः टीकायाः संशोधन-सम्पादनकार्येऽल्पे एव समये प्रारब्धे ॥ ___ वस्तुतोऽस्मिन् क्षेत्रेऽनभिज्ञोऽहं संशोधन-सम्पादकार्यं कीदृगस्ति, तत् किञ्चिदपि ज्ञानमयं ग्रन्थः पूर्णो जातस्तदा जातम् ॥ सत्यमेव प्रतिभाति केनचिद् विदुषोक्तमिदं वचनम्- "शिल्पकारस्य शिल्पशास्त्रेण कलाकलिते जिनमन्दिरे क्रियमाणे यावान् परिश्रमो भवति तावानेव, कदाचित् ततोऽप्यधिको वा भवति ग्रन्थमन्दिरं कृतवतः संशोधकस्य सम्पादकस्य च" इति ॥ ईदृगाशयवत्येका पङ्किः स्मृतिपथमागच्छति- “विद्वानेव विजानाति विद्वज्जनपरिश्रमः" इति ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1098