Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala Author(s): Hemchandracharya, Publisher: Rander Road Jain SanghPage 15
________________ १४ शब्द: पार्वतीवल्लभं नत्वा पितरं चन्द्रशेखरम् । पिपासूनां प्रबोधाय किञ्चदुद्धृत्य लिख्यते ॥ श्रोत्रग्राह्यो गुणः शब्दः । शब्दलक्षणं च श्रोत्रग्राह्यगुणविभाजकधर्मवत्त्वम्, अथवा श्रवणेन्द्रियजन्यलौकिकप्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तादृशी जातिश्च शब्दत्वरूपा । शब्दस्त्वाकाशमात्रवृत्तिः, बाह्यैकेन्द्रियग्राह्यो द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एव 'अनित्यः' इति नैयायिकाः ॥ 'पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति' इति साङ्ख्या वेदान्तिनश्चाहुः । स्वतन्त्रास्तु 'भेर्यां शब्दः मृदङ्गे शब्द:' इति व्यवहारात् पृथिव्यामेव शब्दमिच्छन्ति ॥ येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणादीनां सम्प्रत्ययो भवति, स शब्दः ॥ स च शब्दो द्विविधः । बुद्धिहेतुकोऽबुद्धिहेतुकश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकश्च द्विविधः, स्वाभाविक: काल्पनिकश्च । तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधारणः । काल्पनिकोऽपि त्रिविधः । वाद्यादिशब्दो गीतिरूपो वर्णात्मकश्च । तत्र भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो गीतिरूपः । ध्वनिविशेषसहकृतकण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः ॥ अन्यत्र चेत्थं विभाग उक्तः । शब्दो द्विविधः, ध्वन्यात्मको वर्णात्मकश्च । तत्राद्यो भेरीमृदङ्गादौ प्रसिद्धः, द्वितीयः संस्कृतभाषादिरूपः ॥ अत्र शाब्दिका आहुः - 'वर्णात्मकश्च शब्दो वस्तुत एकोऽपि तत्तद्वर्णसंस्कारैः प्रतिबिम्बतत्तद्रूपोऽनन्तपदरूपतामिवापन्नः ' इति सर्वपदरूपः सर्वार्थाभिधानशक्तिरिति । सा शक्तिर्योगिप्रत्यक्षगम्या नाऽस्मज्ज्ञानगम्या ॥ परापश्यन्ती मध्यमा वैखरीरितिचत्वारि वाचः पदानि । एकैव नादात्मिका वाड्मूलाधारादुदिता सती 'परा' इत्युच्यते, सैव हृदयाभिगामिनी 'पश्यन्ती' इत्युच्यते, सैव बुद्धिं गता विवक्षां प्राप्ता 'मध्यमा' इत्युच्यते, अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति, तदा 'वैखरी' इत्युच्यते ॥ वर्णात्मकः पुनर्द्विविधः, सार्थको निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः, प्रकृतिः प्रत्ययो निपातश्चेति । निरर्थकं तु कचटतप इत्यादिः ॥ पुनरपि वर्णात्मको द्विविधः, प्रमाणशब्दोऽप्रमाणशब्दश्च । 'प्रमाणशब्दः ' इत्यस्यार्थश्च ' शाब्दप्रमितिकरणज्ञानविषयः शब्दः ' इति । अयमर्थश्च शाब्दबोधं प्रति पदज्ञानस्य करणतामते सङ्गच्छते । प्रमाणशब्द आप्तोपदेशः । तदर्थश्च आप्तो यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । सोऽपि द्विविधो लौकिको वैदिकश्च । तत्राद्यो लौकिको विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधिर्यथा पाकं कुर्यादित्यादिः । निषेधश्च इदमनिष्टं न कुर्यादित्यादिः । अर्थवादस्तु 'अयं ब्राह्मणः स्वमहिम्ना सर्वं जगत् पवित्रं करोति' इत्यादिः । द्वितीयस्तु वैदिकः पञ्चविधः, विधिर्मन्त्रो नामधेयं निषेधोऽर्थवादश्चेति । तत्र लौकिकशब्दः आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाणभूतः परमाप्तेन भगवता प्रणीतत्वात् ॥ अप्रमाणशब्दस्तु 'वह्निना सिञ्चेत्' 'गौरश्वः ' 'पुरुषो हस्ती' इत्यादिरूप इति । अप्रमाणशब्दस्तु दोषवत्त्वात् आगमाभास इत्युच्यते ॥ शब्दोत्पत्तिर्द्विविधा । केषाञ्चिन्नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषाञ्चिन्मते तु कदम्बकोरकन्यायेन तदुत्पत्तिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1098