Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 14
________________ | अनारतं प्रचलतु भवतः संशोधनयात्रा विद्वद्वरिष्ठवाचकवर श्रीमद्देवसागरगणिविरचितव्युत्पत्तिरत्नाकराख्यवृत्तिविभूषितायाः अभिधानचिन्तामणिनाममालायाः श्रीमता श्रीचन्द्रविजयगणिवरेण संशोधितं प्रकाशनमिदं वर्धापयतो मे मनोमीनोऽद्य नितरां निमज्जत्यमन्दानन्दसन्दोहमहोदन्वति ॥ १३ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य भगवद्धिमवतः प्रादूर्भूता श्रुतभागीरथी विभिन्नप्रवाहरूपेण प्रवाहिता अनेकानेकविद्याशाखाः नवपल्लविताः कुर्वन्ती प्रभूतप्रसवान् प्रसवन्ती च विलोक्यते ॥ विद्याशाखायाः कोऽपि प्रदेशस्तेषामाचार्यप्रकाण्डानां मनीषासंस्पर्शविरहितो नैवास्ति ॥ न्याय-व्याकरण - काव्य- कोश- कथा - छन्दोऽलङ्कार-तत्त्वज्ञान - योगप्रभृतिसर्वविषयेषु तैर्विरचितान् प्रौढतमान् ग्रन्थान् विलोक्यावगत्य च तेषां विपश्चिच्चेतश्चमत्कारिचातुर्यं पण्डितंमन्योऽपि को नहि कुर्यान्निजशिरोविधूननम् ॥ तैर्विरचितेषु १ अभिधानचिन्तामणिनाममाला २ अनेकार्थसङ्ग्रह ३ निघण्टु ४ देशीनाममालाख्येषु चतुर्षु कोशेषु इयं नाममालैव शेखरायमाणा विद्यते । साऽपि यदि रत्नैरेव नहि किन्तु रत्नाकरेण भूषिता भवेत् तर्हि तु किं कथयितव्यमेव ॥ 'व्युत्पत्तिरत्नाकर' इत्यन्वर्थनामधारिण्या वृत्तेरस्याः अनेकप्राचीनहस्तलिखितप्रतीनामाधारेण सूक्ष्मपरिर्मितमतिभूरिश्रमानवधारितसमयसाध्यं संशोधनं सम्पादनञ्च शब्दशास्त्राभ्यासव्युत्पन्नमतिना गणिवरेण श्रीमता श्रीचन्द्रविजयेन विधाय पूर्ववर्तिसंशोधकपुरुषाणां पङ्क्तौ स्वप्रवेशः सम्पादित इत्यस्मत्कृते प्रभूतप्रमोदप्रदम् ॥ पूज्यपादशासनसम्राट् श्रीमद्विजयनेमिसूरीश्वराणां नानागुणिमणिरोहणायमाने समुदाये पुरा खलु नानाशास्त्रविशदवैदुष्यविभूषिता नैकविषयकविद्वद्गम्यबहुविधग्रन्थसर्जका अनेके प्राज्ञपुरुषाः समभूवन् सम्प्रत्यपि आचार्य श्रीविजयप्रद्युम्नसूरि-श्रीविजयशीलचन्द्रसूरि-श्रीविजयसोमचन्द्रसूरिप्रभृतयस्तदन्तिषदश्च प्राचीनप्रतीनामाधारेण मनीषिमनोमोदजनकं संशोधनादिकार्यं संस्कृत - प्राकृत-गुर्जरादिभाषासु लेखादिलिखनञ्च विदधति ॥ गणिश्रीचन्द्रविजयोऽपि सर्वजनसाधारणमितरत्कार्यजातं विमुच्य संशोधनादिकार्येष्वेव दत्तावधानतया प्रयतेतेत्याशास्य विरम्यते ॥ वि. सं. २०५९, वै. कृष्ण-५ श्रीनेमिसूरिज्ञानशाला अमदावाद - पांजरापोल Jain Education International For Private Personal Use Only - सूरीश्वरगुरुदेवचरणाम्बुजसेविना विजयहेमचन्द्रसूरिणा www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1098