Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 16
________________ १५ तत्राद्या तदुत्पत्तिर्यथा आद्यया वीच्याऽन्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण च महत्तरं तरङ्गान्तरम् । तद्वद् आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यशब्दस्तेनैव शब्देन जन्यते, तेन चाऽपरस्तद्व्यापकः शब्दः इत्येवं क्रमेण श्रोत्रोत्पन्नः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात् तद्देशावच्छेदेनाऽऽद्यशब्दस्योत्पत्तिः । अनन्तरं तद्बहिर्दशदिगवच्छेदेन प्रथमशब्दात् तद्व्यापको द्वितीयः शब्दः । ततस्तद्बहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्दाद् भवति इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या ॥ द्वितीया तदुत्पत्तिः, यथा कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः, तद्वदाद्यशब्दाद् दशसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते, इत्येवं सर्वासु दिक्षु उपरि उपरि शब्दानामुत्पत्तिरित्यलम् ॥ शक्तिः पदपदार्थयोः सम्बन्धः । 'इदं पदममुमर्थं बोधयतु' इत्याकारक ईश्वरसङ्केतः । अत्र ईश्वरसङ्केतो नामेश्वरेच्छा । एतत्पदजन्यबोधविषयोऽयमर्थ इत्याकारकेश्वरेच्छा शक्तिः । 'अस्माच्छब्दादयमर्थो बोद्धव्यः' इत्यनादिसङ्केतः । यथा घटाद्यर्थविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः । 'पदपदार्थयोर्वाच्यवाचकभावनियामकं सम्बन्धान्तरं शक्तिः' इति शाब्दिका वदन्ति । 'अविनाभाव एव शक्तिः' इति प्राञ्च अङ्गीचक्रुः ॥ न्यायमते शक्तिस्त्रिविधा, योगः रूढिः योगरूढिश्चेति । तत्राद्या पाचकादिपदेषु, द्वितीया घटादिपदेषु, तृतीया पङ्कजादिपदेषु ॥ अत्र वैयाकरणा:- 'सैषा शक्तिः संयोगादिभिर्नानार्थकशब्देषु नियम्यते' इति । तदुक्तं हरिणा संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृति हेतवः ॥ [ ] इति । तदर्थश्च- एते संयोगादयः शब्दार्थस्याऽनवच्छेदे सन्देहे तदपाकरणद्वारेण विशेषस्मृतिहेतवो निर्णयहेतव इति । उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनका इति भावः । 'जात्याकृतिव्यक्तिषु तिसृषु शक्तित्रयम्' इति शाब्दिका मन्यन्ते । 'आकृतावेव शक्तिः' इति पतञ्जलिप्रभृतय आहुः । 'अपोहार्थे शक्तिः' इति बौद्धा मन्यन्ते ॥ अत्रेदं बोध्यम् । प्रथमत: शक्तिग्रहो व्यवहाराद् घटानयनादिरूपाद् भवति । तथा हि-'घटमानय' इति केनचित् प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोऽर्थं प्रतीत्य घटमानयति । तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयोज्यस्य प्रयत्नमनुमिनोति । तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरमनुमिनोति, स्वप्रयत्ने तेन तथा निश्चयात् । ततस्तद्धत्वाकाङ्क्षामुपस्थितत्वाच्छब्दमेव कल्पयति । तदनन्तरं घटादिपदानां प्रत्येकमावापोद्वापाभ्यां 'घटपदं घटधीजनकम्' इति कल्पयति । तत आद्यशक्तिग्रहानन्तरमुपमानादिभिः शक्तिग्रहो भवति । अत्रोक्तमभियुक्तै: शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ [ ] इति । तत्र व्याकरणाच्छक्तिग्रहः, यथा 'कर्मणि द्वितीया'( ) 'कर्तरि परस्मैपदम्' इत्यनुशासनात् कर्मत्वादौ द्वितीयादेः शक्तिग्रहः। धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवतीति ॥ उपमानाच्छक्तिग्रहः, यथा गवादिपदशक्तिधीसाचिव्येन गोसादृश्यातिदेशवाक्याद् गवयपदवाच्यत्वबोधोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् 'गवयो गवयपदवाच्यः' इत्याकारः । 'गोसदृशो गवयपदवाच्यः' इति सादृश्यज्ञानाद् गवयपदस्य गवये शक्तिग्रहो भवतीति वा ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1098