________________
१५ तत्राद्या तदुत्पत्तिर्यथा आद्यया वीच्याऽन्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण च महत्तरं तरङ्गान्तरम् । तद्वद् आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यशब्दस्तेनैव शब्देन जन्यते, तेन चाऽपरस्तद्व्यापकः शब्दः इत्येवं क्रमेण श्रोत्रोत्पन्नः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात् तद्देशावच्छेदेनाऽऽद्यशब्दस्योत्पत्तिः । अनन्तरं तद्बहिर्दशदिगवच्छेदेन प्रथमशब्दात् तद्व्यापको द्वितीयः शब्दः । ततस्तद्बहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्दाद् भवति इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या ॥
द्वितीया तदुत्पत्तिः, यथा कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः, तद्वदाद्यशब्दाद् दशसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते, इत्येवं सर्वासु दिक्षु उपरि उपरि शब्दानामुत्पत्तिरित्यलम् ॥
शक्तिः
पदपदार्थयोः सम्बन्धः । 'इदं पदममुमर्थं बोधयतु' इत्याकारक ईश्वरसङ्केतः । अत्र ईश्वरसङ्केतो नामेश्वरेच्छा । एतत्पदजन्यबोधविषयोऽयमर्थ इत्याकारकेश्वरेच्छा शक्तिः । 'अस्माच्छब्दादयमर्थो बोद्धव्यः' इत्यनादिसङ्केतः । यथा घटाद्यर्थविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः । 'पदपदार्थयोर्वाच्यवाचकभावनियामकं सम्बन्धान्तरं शक्तिः' इति शाब्दिका वदन्ति । 'अविनाभाव एव शक्तिः' इति प्राञ्च अङ्गीचक्रुः ॥
न्यायमते शक्तिस्त्रिविधा, योगः रूढिः योगरूढिश्चेति । तत्राद्या पाचकादिपदेषु, द्वितीया घटादिपदेषु, तृतीया पङ्कजादिपदेषु ॥
अत्र वैयाकरणा:- 'सैषा शक्तिः संयोगादिभिर्नानार्थकशब्देषु नियम्यते' इति । तदुक्तं हरिणा
संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृति हेतवः ॥
[ ] इति । तदर्थश्च- एते संयोगादयः शब्दार्थस्याऽनवच्छेदे सन्देहे तदपाकरणद्वारेण विशेषस्मृतिहेतवो निर्णयहेतव इति । उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनका इति भावः । 'जात्याकृतिव्यक्तिषु तिसृषु शक्तित्रयम्' इति शाब्दिका मन्यन्ते । 'आकृतावेव शक्तिः' इति पतञ्जलिप्रभृतय आहुः । 'अपोहार्थे शक्तिः' इति बौद्धा मन्यन्ते ॥
अत्रेदं बोध्यम् । प्रथमत: शक्तिग्रहो व्यवहाराद् घटानयनादिरूपाद् भवति । तथा हि-'घटमानय' इति केनचित् प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोऽर्थं प्रतीत्य घटमानयति । तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयोज्यस्य प्रयत्नमनुमिनोति । तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरमनुमिनोति, स्वप्रयत्ने तेन तथा निश्चयात् । ततस्तद्धत्वाकाङ्क्षामुपस्थितत्वाच्छब्दमेव कल्पयति । तदनन्तरं घटादिपदानां प्रत्येकमावापोद्वापाभ्यां 'घटपदं घटधीजनकम्' इति कल्पयति । तत आद्यशक्तिग्रहानन्तरमुपमानादिभिः शक्तिग्रहो भवति । अत्रोक्तमभियुक्तै:
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ [ ] इति । तत्र व्याकरणाच्छक्तिग्रहः, यथा 'कर्मणि द्वितीया'( ) 'कर्तरि परस्मैपदम्' इत्यनुशासनात् कर्मत्वादौ द्वितीयादेः शक्तिग्रहः। धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवतीति ॥
उपमानाच्छक्तिग्रहः, यथा गवादिपदशक्तिधीसाचिव्येन गोसादृश्यातिदेशवाक्याद् गवयपदवाच्यत्वबोधोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् 'गवयो गवयपदवाच्यः' इत्याकारः । 'गोसदृशो गवयपदवाच्यः' इति सादृश्यज्ञानाद् गवयपदस्य गवये शक्तिग्रहो भवतीति वा ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org