________________
१६
कोशादपि शक्तिग्रहः, यथा 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः' ( )इत्यादिना नाकादिपदस्य स्वर्गे शक्तिग्रहः। 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' ( ) चूर्णे क्षोदः' ( )इत्यादितश्च कोशाच्छक्तिग्रहः' इति ॥
आप्तवाक्यादपि शक्तिग्रहः, यथा 'कोकिल: पिकपदवाच्यः' इत्याद्याप्तवाक्यात् पिकादिपदानां कोकिले शक्तिग्रह इति ॥
व्यवहारादपि शक्तिग्रहः, यथा 'घटं नय' 'गामानय' इत्याद्यावापोद्वापाभ्यां पार्श्वस्थबालस्य घटादिपदस्य घटमात्रे शक्तिग्रहो भवतीति ||
वाक्यशेषादपि शक्तिग्रहः, यथा 'यवमयश्चरुर्भवति' इत्यत्र यवपदस्य 'दीर्घशूकविशेषे कङ्गौ वा शक्तिः' इति सन्देहे वाक्यशेषाद् दीर्घशूकविशेषे शक्तिर्निीयते ॥
क्वचिद् विवरणादपि शक्तिग्रहः यथा 'घटोऽस्ति' इत्यस्य 'कलशोऽस्ति' इत्यनेन विवरणाद् घटपदस्य कलशे शक्तिग्रह इति ॥
प्रसिद्धपदस्य सान्निध्यादपि शक्तिग्रहः, यथा 'इह सहकारतरौ मधुरं पिको रौति इत्यादौ पिकपदस्य मधुरादिप्रसिद्धपदसान्निध्यात् कोकिले शक्तिग्रह इति ॥
जीयादशोको ज्योतिर्वित् सोमश्चासौ विचक्षणः । श्रमणश्रीचन्द्रादीनां जिनमार्गोपदेशकः ॥
इति भवदीयः विष्णुकान्तः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org.