________________
१४
शब्द:
पार्वतीवल्लभं नत्वा पितरं चन्द्रशेखरम् । पिपासूनां प्रबोधाय किञ्चदुद्धृत्य लिख्यते ॥
श्रोत्रग्राह्यो गुणः शब्दः । शब्दलक्षणं च श्रोत्रग्राह्यगुणविभाजकधर्मवत्त्वम्, अथवा श्रवणेन्द्रियजन्यलौकिकप्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तादृशी जातिश्च शब्दत्वरूपा । शब्दस्त्वाकाशमात्रवृत्तिः, बाह्यैकेन्द्रियग्राह्यो द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एव 'अनित्यः' इति नैयायिकाः ॥
'पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति' इति साङ्ख्या वेदान्तिनश्चाहुः । स्वतन्त्रास्तु 'भेर्यां शब्दः मृदङ्गे शब्द:' इति व्यवहारात् पृथिव्यामेव शब्दमिच्छन्ति ॥
येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणादीनां सम्प्रत्ययो भवति, स शब्दः ॥
स च शब्दो द्विविधः । बुद्धिहेतुकोऽबुद्धिहेतुकश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकश्च द्विविधः, स्वाभाविक: काल्पनिकश्च । तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधारणः । काल्पनिकोऽपि त्रिविधः । वाद्यादिशब्दो गीतिरूपो वर्णात्मकश्च । तत्र भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो गीतिरूपः । ध्वनिविशेषसहकृतकण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः ॥
अन्यत्र चेत्थं विभाग उक्तः । शब्दो द्विविधः, ध्वन्यात्मको वर्णात्मकश्च । तत्राद्यो भेरीमृदङ्गादौ प्रसिद्धः, द्वितीयः संस्कृतभाषादिरूपः ॥
अत्र शाब्दिका आहुः - 'वर्णात्मकश्च शब्दो वस्तुत एकोऽपि तत्तद्वर्णसंस्कारैः प्रतिबिम्बतत्तद्रूपोऽनन्तपदरूपतामिवापन्नः ' इति सर्वपदरूपः सर्वार्थाभिधानशक्तिरिति । सा शक्तिर्योगिप्रत्यक्षगम्या नाऽस्मज्ज्ञानगम्या ॥
परापश्यन्ती मध्यमा वैखरीरितिचत्वारि वाचः पदानि । एकैव नादात्मिका वाड्मूलाधारादुदिता सती 'परा' इत्युच्यते, सैव हृदयाभिगामिनी 'पश्यन्ती' इत्युच्यते, सैव बुद्धिं गता विवक्षां प्राप्ता 'मध्यमा' इत्युच्यते, अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति, तदा 'वैखरी' इत्युच्यते ॥
वर्णात्मकः पुनर्द्विविधः, सार्थको निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः, प्रकृतिः प्रत्ययो निपातश्चेति । निरर्थकं तु कचटतप इत्यादिः ॥
पुनरपि वर्णात्मको द्विविधः, प्रमाणशब्दोऽप्रमाणशब्दश्च । 'प्रमाणशब्दः ' इत्यस्यार्थश्च ' शाब्दप्रमितिकरणज्ञानविषयः शब्दः ' इति । अयमर्थश्च शाब्दबोधं प्रति पदज्ञानस्य करणतामते सङ्गच्छते । प्रमाणशब्द आप्तोपदेशः । तदर्थश्च आप्तो यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । सोऽपि द्विविधो लौकिको वैदिकश्च । तत्राद्यो लौकिको विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधिर्यथा पाकं कुर्यादित्यादिः । निषेधश्च इदमनिष्टं न कुर्यादित्यादिः । अर्थवादस्तु 'अयं ब्राह्मणः स्वमहिम्ना सर्वं जगत् पवित्रं करोति' इत्यादिः । द्वितीयस्तु वैदिकः पञ्चविधः, विधिर्मन्त्रो नामधेयं निषेधोऽर्थवादश्चेति । तत्र लौकिकशब्दः आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाणभूतः परमाप्तेन भगवता प्रणीतत्वात् ॥
अप्रमाणशब्दस्तु 'वह्निना सिञ्चेत्' 'गौरश्वः ' 'पुरुषो हस्ती' इत्यादिरूप इति । अप्रमाणशब्दस्तु दोषवत्त्वात् आगमाभास
इत्युच्यते ॥
शब्दोत्पत्तिर्द्विविधा । केषाञ्चिन्नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषाञ्चिन्मते तु कदम्बकोरकन्यायेन तदुत्पत्तिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org