________________
| अनारतं प्रचलतु भवतः संशोधनयात्रा
विद्वद्वरिष्ठवाचकवर श्रीमद्देवसागरगणिविरचितव्युत्पत्तिरत्नाकराख्यवृत्तिविभूषितायाः अभिधानचिन्तामणिनाममालायाः श्रीमता श्रीचन्द्रविजयगणिवरेण संशोधितं प्रकाशनमिदं वर्धापयतो मे मनोमीनोऽद्य नितरां निमज्जत्यमन्दानन्दसन्दोहमहोदन्वति ॥
१३
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य भगवद्धिमवतः प्रादूर्भूता श्रुतभागीरथी विभिन्नप्रवाहरूपेण प्रवाहिता अनेकानेकविद्याशाखाः नवपल्लविताः कुर्वन्ती प्रभूतप्रसवान् प्रसवन्ती च विलोक्यते ॥
विद्याशाखायाः कोऽपि प्रदेशस्तेषामाचार्यप्रकाण्डानां मनीषासंस्पर्शविरहितो नैवास्ति ॥
न्याय-व्याकरण - काव्य- कोश- कथा - छन्दोऽलङ्कार-तत्त्वज्ञान - योगप्रभृतिसर्वविषयेषु तैर्विरचितान् प्रौढतमान् ग्रन्थान् विलोक्यावगत्य च तेषां विपश्चिच्चेतश्चमत्कारिचातुर्यं पण्डितंमन्योऽपि को नहि कुर्यान्निजशिरोविधूननम् ॥
तैर्विरचितेषु १ अभिधानचिन्तामणिनाममाला २ अनेकार्थसङ्ग्रह ३ निघण्टु ४ देशीनाममालाख्येषु चतुर्षु कोशेषु इयं नाममालैव शेखरायमाणा विद्यते । साऽपि यदि रत्नैरेव नहि किन्तु रत्नाकरेण भूषिता भवेत् तर्हि तु किं कथयितव्यमेव ॥
'व्युत्पत्तिरत्नाकर' इत्यन्वर्थनामधारिण्या वृत्तेरस्याः अनेकप्राचीनहस्तलिखितप्रतीनामाधारेण सूक्ष्मपरिर्मितमतिभूरिश्रमानवधारितसमयसाध्यं संशोधनं सम्पादनञ्च शब्दशास्त्राभ्यासव्युत्पन्नमतिना गणिवरेण श्रीमता श्रीचन्द्रविजयेन विधाय पूर्ववर्तिसंशोधकपुरुषाणां पङ्क्तौ स्वप्रवेशः सम्पादित इत्यस्मत्कृते प्रभूतप्रमोदप्रदम् ॥
पूज्यपादशासनसम्राट् श्रीमद्विजयनेमिसूरीश्वराणां नानागुणिमणिरोहणायमाने समुदाये पुरा खलु नानाशास्त्रविशदवैदुष्यविभूषिता नैकविषयकविद्वद्गम्यबहुविधग्रन्थसर्जका अनेके प्राज्ञपुरुषाः समभूवन् सम्प्रत्यपि आचार्य श्रीविजयप्रद्युम्नसूरि-श्रीविजयशीलचन्द्रसूरि-श्रीविजयसोमचन्द्रसूरिप्रभृतयस्तदन्तिषदश्च प्राचीनप्रतीनामाधारेण मनीषिमनोमोदजनकं संशोधनादिकार्यं संस्कृत - प्राकृत-गुर्जरादिभाषासु लेखादिलिखनञ्च विदधति ॥ गणिश्रीचन्द्रविजयोऽपि सर्वजनसाधारणमितरत्कार्यजातं विमुच्य संशोधनादिकार्येष्वेव दत्तावधानतया प्रयतेतेत्याशास्य विरम्यते ॥
वि. सं. २०५९, वै. कृष्ण-५ श्रीनेमिसूरिज्ञानशाला अमदावाद - पांजरापोल
Jain Education International
For Private Personal Use Only
- सूरीश्वरगुरुदेवचरणाम्बुजसेविना विजयहेमचन्द्रसूरिणा
www.jainelibrary.org