________________
(७) यत्सविधेऽहमभ्यासं कृतवान् ते षड्दर्शनवेत्तारो ज्ञानदातारः स्व.पण्डितश्रीचन्द्रशेखरजीझामहोदयास्तथा
तत्पुत्ररत्नाः पण्डितश्रीविष्णुकान्तजीझामहोदयाश्च ॥ (८) दुर्लभपुस्तकप्राप्तये सहायकः श्रावकश्रीकान्तिलाल बी. महेताश्राद्धवर्यः (11-A हैसाम मार्गः, कोलकत्ता)
तथा रमेशभाई गाठाणीश्राद्धवर्यश्च (सेटेलाईट, अमदावाद) ॥ (९) सर्वप्रकारककार्यकरणे तत्पराः श्रीराजाराम( राज)लोलम-जगदीश-प्रेमजीआदयः ॥ (१०) कोम्पयुटररहिते युगेऽप्यतिकठिनकर्कशानां संस्कृत-प्राकृत-गुर्जरग्रन्थरत्नानां मुद्रापकौ श्रमणोपासकौ श्रीभरतभाई
महेन्द्रभाई इत्याख्यौ बन्धुबान्धवौ ॥ (११) अक्षरविन्यसनं (एन्ट्री एवं सेटींग) यया सुचारुतया कृतम्, सा बहेनश्रीनशीम इत्याख्या ॥ (१२)
साक्षात् परम्पराया वा सहायका अभवन्, ते सर्वे ॥ इमं महाग्रन्थं विद्वञ्जनानां कोमलकरयुगले निधाय प्रार्थये यदत्र ये केचन दोषा कोम्प्युटरयन्त्रेण दृष्टिदोषेण मतिमान्द्येन वा सञ्जातास्तान् सर्वान् मां सूचयित्वा कृतार्थीकरिष्यन्ति ॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥१॥
प्रान्ते परमाराध्य-सर्वविघ्नविनाशकाखण्डप्रभावशालि-शान्तिकारक-पञ्चमहालवर्तिडुमामण्डन-श्रीशान्तिनाथप्रभुं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्य-वाचकवरश्रीदेवसागर-तपोगच्छाधिपशासनसम्राटश्रीनेमि-विज्ञान-कस्तूरचन्द्रोदय-अशोक-सोमचन्द्रसूरीश्वरगुरूंश्च स्मृत्वा नत्वा मासरस्वतीदेवीं च ध्यात्वा विरमामीत्यलम् ॥
वि. सं. २०५९, वैशाखे सुद-३, अक्षयतृतीयायाम, रविवासरे
श्रीनेमिसूरिज्ञानशाला, पांजरापोल, अमदावाद ॥
परमपूज्याचार्यश्रीमदद्विजयाशोकचन्द्रसूरीश्वराणां शिष्यवराणां परमपूज्याचार्यश्रीमद्विजयसोमचन्द्रसूरीश्वराणां चरणोपासकः
श्रीचन्द्रविजयः
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org