________________
संशोधकीयं सम्पादकीयं च
सार्धकोटित्रयोकप्रमितसाहित्यसूत्रणसूत्रधार-मनीषिमूर्धन्य-सूरिपुङ्गव-महज्ज्योतिर्धरकलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यभगद्विरचिताऽभिधानचिन्तामणिनाममालाया अनुपलब्धा व्युत्पत्तिरत्नाकरटीका विद्वज्जनवल्लभानां धीमतां करकमलेष्वर्पतामस्माकमतीवातीवानन्दो बोभूयते ॥
एतत्परमानन्दे कारणं किम् ? प्रारम्भतः प्रारभे
जिनशासनशणगारपरमपूज्याचार्यभगवच्छ्रीमद्विजयचन्द्रोदयसूरीश्वराणां, परमपूज्यप्रगुरुवराणां, परमपूज्यगुरुवराणां चाऽजस्त्रं प्रेरणया कृपया च प्राचीनार्वाचीनतालपत्रकागदपत्रमयानां हस्तलिखितानां पुस्तकानां पठन-लिखनकार्यारम्भः प्रारब्धः ॥
समये समये प्रकाशिताप्रकाशितसुलभदुर्लभग्रन्थानां परिचयाय किञ्चित् संस्कृत-प्राकृतादिसाहित्यैतिह्यं पठितं विलोकितं च ॥
अपि च पूर्वोक्तपूज्यगुरुवराणां सान्निध्येऽमूल्यमौलिकग्रन्थानां मुद्रित-हस्तलिखितग्रन्थानां किञ्चिदत्युपयोगी आवश्यकश्च परिचयः कृतः, तदैव तेषामनुभवप्राचुर्यमज्ञायि, ज्ञातं चाऽस्माकं गुरुवरा गुरुवरा एव ॥
एकदा जामनगरे नगरे तत्रभवतां प्रगुरुवराणां प्रतिकूलशरीरस्वास्थ्ये जाते परमपूज्यार्यश्रीमद्विजयचन्द्रोदयसूरीश्वरमहाराजा अन्यमुनयश्च तत्राऽऽगताः सन्तः स्थिरताभाजोऽभवन् । तस्मिन्नवसरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्काया अभिधानचिन्तामणिनाममालासहितव्युत्पत्तिरत्नाकरटीकाया हस्तलिखितकागदप्रतेरेका प्रतिकृतिः (झेरोक्ष) दर्शनाय पठनाय चाऽऽगता । पूज्याचार्यवर्याः प्रतेराद्यन्तभागं पठितवन्तः, आदिभागस्थिताः प्रारम्भिकलोकाः पठ्यमाना आसन्। अद्यावधि मनसीयमेव ग्रन्थिरासीद्- यद् एतन्नाममालाया याः काश्चिदपि टीकाः, ताः श्रीसिद्धहेमचन्द्रशब्दानुशासननामव्याकरणमधिकृत्यैवेति, तदियमपि (व्युत्पत्तिरत्नाकरटीकाऽपि) तथैवेति, परं तु यदा- "श्रीपाणिनीयोक्तिभिः" इति पङ्किदृष्टा पठिता श्रुता च, तदाऽवगतमियं टीका पाणिनीयव्याकरणानुसारिणीति । गुरुवरप्राप्तपाणिनीयव्याकरणसंस्कारोऽहमस्याः टीकायाः संशोधन-सम्पादनकार्येऽल्पे एव समये प्रारब्धे ॥
___ वस्तुतोऽस्मिन् क्षेत्रेऽनभिज्ञोऽहं संशोधन-सम्पादकार्यं कीदृगस्ति, तत् किञ्चिदपि ज्ञानमयं ग्रन्थः पूर्णो जातस्तदा जातम् ॥
सत्यमेव प्रतिभाति केनचिद् विदुषोक्तमिदं वचनम्- "शिल्पकारस्य शिल्पशास्त्रेण कलाकलिते जिनमन्दिरे क्रियमाणे यावान् परिश्रमो भवति तावानेव, कदाचित् ततोऽप्यधिको वा भवति ग्रन्थमन्दिरं कृतवतः संशोधकस्य सम्पादकस्य च" इति ॥
ईदृगाशयवत्येका पङ्किः स्मृतिपथमागच्छति- “विद्वानेव विजानाति विद्वज्जनपरिश्रमः" इति ॥
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org