________________
इत्युक्त्वा 'मया धाटी पातिता' इति न ज्ञातव्यम्, परं त्वेतट्टीकाकर्तृणां वाचकवरश्रीदेवसारगणिवराणां ज्ञानभक्तिरत्यद्भुता प्रशस्या अनुकरणीया च ॥
ज्ञानस्य सर्जन-संरक्षण-संवर्धनादिसेवया ज्ञानावरणीयादिकर्मणां क्षयः, परम्परया अनन्तज्ञान-दर्शन-चारित्रतप-वीर्याद्यात्मगुणानां प्राप्तिरर्थाद् मोक्षश्चेत्यपि महान् लाभश्चेत्यलम्, प्रकृतमनुसरामि
शब्दशास्त्रज्ञानस्य व्याकरणशास्त्रज्ञानस्य वोपलब्ध्यनन्तरं कवित्वशक्तिप्राप्तयेऽनल्पशब्दानां चयनमावश्यकम्, तत्तु कोषद्वारैव, यतो यथा कोषहीनः पुरुषो भूपालश्च प्रजोत्पादनाय प्रजारक्षणाय सर्वथाऽसमर्थो भवति, तथैव कोषहीनो विद्वानप्युत्तमकाव्यरचनां कर्तुं यथावद् रसास्वादनं कर्तुं वा सर्वथाऽसमर्थ एव भवति । यथोक्तम्"नरभूपौ विना कोषं प्रजोत्पादनरक्षयोः । नैव क्षमो यथा तद्वत् कविः काव्यकृतावपि ॥" [ ] इति ॥
शब्दैर्विनोपयुक्तशब्दचयनव्यस्तः कविरुन्नतोन्नतकल्पनापूर्णां कवितां कर्तुं कदापि न समर्थः, तस्मात् कोषकलनमेव वरं कवीनाम् । अन्यच्च व्याकरण-न्यायादीनां ग्रन्था बहवो यथोपलब्धास्तथैव कोषग्रन्थास्तट्टीकाश्चाप्यनेका दरीदृश्यन्ते, तत्कारणं तु 'तेषां प्रचुरा आवश्यकता' इत्यहं मन्ये ।।
शब्दज्ञाऽमरसिंहकृतनामलिङ्गानुशासनस्याऽपरनामामरकोषस्य प्रागपि विपुलप्रमाणाः कोषा आसन् , ते सर्वे कालकवलिता लुप्तप्राया बभूवेत्यादिकं सर्वमस्मद्गुरुवरलिखितरत्नाकरोऽनुपमो व्युत्पत्तिरलाकरतो ज्ञातव्यम्, परं तु शास्त्रनभस्युड्डीनं बहुलतयाऽमरकोषस्यैवेति ॥
अमरकोषस्य सन्निधिं प्राप्तुं द्वावेव कोषौ वर्तेते । प्रथमो यादवप्रकाशाचार्यकृतवैजयन्तीकोषः, तच्छ्लोकसङ्ख्या-३२१६, द्वितीया श्रीहेमचन्द्राचार्यकृतेयमभिधानचिन्तामणिनाममाला, तच्छ्लोकसङ्ख्या-१५४२ ॥
एकका हेमचन्द्राचार्याः पाणिनिमन्यादिरचितग्रन्थान प्रति सर्वविषयकग्रन्थान् व्यरचयन्, तत् तारकजिनशासनं प्रति समर्पिततां विनाऽशक्यमिदम् ॥
कान् प्रति के ग्रन्था व्यरचयन् तद् जिज्ञासुविद्वद्भिरन्यतोऽवगन्तव्यम् । विशेषमिदमत्र ज्ञातव्यम्- यथाऽमरसिंहेन नामलिङ्गानुशासनं कृतं तथैव लिङ्गानुशासनरहिताऽभिधानचिन्तामणिनाममाला कृता तैराचार्यैरिति ॥
टीकाविषयेऽपि तत्र प्रचलिते द्वे टीके, एका रायमुकुटकृतपदचन्द्रिका, द्वितीया भट्टोजिदीक्षितात्मजभानुजीदीक्षितकृतरामाश्रमी अपरनामव्याख्यासुधा, अत्र व्युत्पत्त्यादिकरणैकाऽद्वितीया रत्नाकरसदृशा व्युत्पत्तिरत्नाकरटीका। तस्या वैशिष्ट्यं यद्यपि प्रस्तावनातो ज्ञेयम्, तथाऽपि संशोधन-सम्पादनावसरे चमत्कृतिकारा रोमोद्गमा परमानन्दानुभूतिर्यस्मिन् जाता, तल्लिखामि(१) वीतनशब्दविषये(पृ. २५९, पं ४७)- "वेति गच्छत्यनयोरपात इति वीतनौ । 'वी गत्यादौ'(अ.प.अ.).
'वीपतिभ्यां तनन् '(उणा-४३०) इति तनन, बाहलकादगणत्वं च। पार्श्वशब्दो निकटार्थः क्लीबे, ततः
क्लीबलिङ्गप्रथमाद्विवचनं समीचीनम्, पुंलिङ्गप्रथमाद्विवचनं तु लेखकदोषाद् ज्ञेयम् " इति ॥ (२) राजर्षिशब्दविषये(पृ. ३१३, पं. १२)- "राजते सप्ताङ्गेनेति राजा, क्षमादिगुणधारणाद् ऋषिः, आ ईषदृषिरर्षिः,
राजा चासावर्षिश्च राजर्षिः । 'ओमाङोश्च'६।१।९५ ॥ इति पररूपत्वम् " इति ॥ (३) मत्कुणशब्दविषये(पृ. ३३९, पं. ६)- "माद्यति हृष्यन्त्यनेन मत्कुणम् । पृषोदरादित्वात् साधुः । चतुर्थवर्गा
द्यकवर्गाद्यपञ्चमस्वरमध्यः " इति ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org