________________
(४) सांयुगीनशब्दविषये (पृ. ३५०, पं. ४१ ) - "संयुगे साधुः सांयुगीनः । 'प्रतिजनादिभ्यः खञ् ४ १४ १९९ ॥ इति 'आयनेयी- ७।१ ।२ ॥ इत्यादिना खस्य ईनादेशः । प्रतिजनादिपाठादेव संयुगशब्दस्य घञि गुणाभावः
11
खञ्, इति ॥
८
(५) भिक्षाशब्दविषये (पृ. ३६०, पं. २१) - " भिक्ष्यते भिक्षा । 'भिक्ष याच्ञायाम् ' (भ्वा.आ.से.), कर्मणि घञ्। ग्रास एव ग्रासमात्रम्, ततः स्वार्थे कनि ग्रासमात्रकम् । यदाहु:- "मयूराण्डप्रमाणो ग्रासः, " 'कवउ' इति लोकभाषाप्रसिद्धः, स एव ग्रासमात्रं मूलटीका । "मात्रं त्ववधृतौ स्वार्थे " [ अनेकार्थसङ्ग्रहः २ ।४३६ ] इत्यनेकार्थवचनाद् मात्रशब्दोऽत्र स्वार्थवाचकः, न तु 'प्रमाणे द्वयसज्दघ्नमात्रचः '५ ।२।३७ ॥ इत्यस्य, सति च तस्मिन् बहुव्रीहिः स्यात्, तस्मिंश्च सति 'टिड्ढाणञ्- '४।१ ।१५ ॥ इत्यादिना ङीषि (डीपि ) ग्रासमात्रीति स्यात्, ततः कनि 'केऽण: ७ ४ १३ ॥ इति ह्रस्वत्वे च ग्रासमात्रिकेति स्यात् न च तदुचितम् ग्रासमात्रमित्यस्य स्वार्थद्योतकत्वात्, यावन्मात्रमित्यादिवदिति । यद्वा मात्रशब्दोऽयं वृत्तिविषये एव तुल्ये प्रमाणे वर्तते, अत्र ग्रासस्य तुल्यप्रमाणमित्यस्वपदविग्रहे षष्ठीसमासे ग्रासमात्रम्, यथा- 'समुद्रमात्रं न सरोऽस्ति किञ्चन' [] इतिवत्, ग्रासमात्रकं कवलप्रमाणमित्यर्थः । यदुक्तम्
" ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ॥ १ ॥ " [] इति ॥ (६) चम्पाशब्दविषये (पृ. ४३४, पं. ७ ) - " चमति जनदौर्गत्यं चम्पा । 'चमु अदने ' (भ्वा.प.से.), 'खल्प
शिल्प - ' ( उणा - ३०८) इति बाहुलकात् पे साधुः । यद्वा चणन्त्यस्यां चण्पा । 'चण हिंसादानयोश्च' (भ्वा.प.से.), चकाराद् गतौ, भ्वादौ, घटादिरयम्, णकारस्य 'म्ना (म्नां ) धुट्वर्गेऽन्त्योऽपदान्ते ' (हैमसू - १।३।३९ ॥ इत्यनुस्वारानुत्पत्तौ 'चण्पा' इत्येव स्वमते मूलपाठः " इति ॥
(७) वितर्दिशब्दविषये (पृ. ४४८, पं. ५ ) - " 'तर्द हिंसायाम्' (भ्वा.प.से.), 'इन् सर्वधातुभ्यः ' (उणा-५५७) इतीनि तर्दिः हिंसा, विगता तर्दिः हिंसाऽस्याः वितर्दिः, स्त्रीलिङ्गः । द्वे 'चउकी' इति ख्यातायाः । दारुपरिस्कृता चतुरस्रा विश्रान्तिभूः । यन्माघः
" रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन् वयसां गणोऽन्ते वासित्वमापस्फुटमङ्गनानाम् ॥१॥"
[ शिशुपालवधम्, सर्गः - ३, श्लो - ५५] इति । वेदी च वास्तुशास्त्रे बहुधा । तथा च वास्तुसुतनाम्नि ग्रन्थे"चतुष्कोणा तु या वेदी स्वस्तिका सा सुखाप्तये । विवाहेऽष्टासने यज्ञे राज्ञां देवार्चनादिषु ॥२॥"[] "द्वे देवागारादौ काष्ठादिचतुष्किकायाः प्राङ्गणादिमध्यगताया वा " [ ] इति स्वामी । "दारूपरि धृता चतुरस्रा विश्रान्तिभूर्वितर्दिरिति भेदः, स्तम्भपीठिकेत्यन्ये "[ ] इति सर्वधरः । " चतुष्किकादिगृहमध्यस्थचतुः - स्तम्भोपरिवक्रकाष्ठनिर्मिताया वेदिकाया: " [ ] इति कोक्कटादय इत्येवं बहवो भेदा ग्रन्थभूयस्त्वभयान्न लिखिताः" इति ॥
(८) रसोद्भवशब्दविषये (पृ. ४८०, पं. ४४) – रसाद् अम्भस उद्भवति रसोद्भवम् । अच् । नानाविधत्रसस्थावराणां शरीरेषु सचित्तेष्वचित्तेषु वा उत्पत्तिसद्भावेऽपि पृथिवीकायत्वमेव । तदुक्तं श्रीसूत्रकृदङ्गद्वितीय श्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययनावसाने- "इहेगतिआ सत्ता णाणविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणां [पाणाणं] सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए" [ श्रीमत्सूत्रकृताङ्गम्, द्वितीयः श्रुतस्कन्धः, अध्य३, सूत्रम् - ६१] इत्यादि । वृत्तिश्चाऽस्य- "इहैके सत्त्वाः प्राणिनः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगाः नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा - सर्पशिरःसु मणयः, करिदन्तेषु
Jain Education International
For Private Personal Use Only
www.jainelibrary.org