SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ (४) सांयुगीनशब्दविषये (पृ. ३५०, पं. ४१ ) - "संयुगे साधुः सांयुगीनः । 'प्रतिजनादिभ्यः खञ् ४ १४ १९९ ॥ इति 'आयनेयी- ७।१ ।२ ॥ इत्यादिना खस्य ईनादेशः । प्रतिजनादिपाठादेव संयुगशब्दस्य घञि गुणाभावः 11 खञ्, इति ॥ ८ (५) भिक्षाशब्दविषये (पृ. ३६०, पं. २१) - " भिक्ष्यते भिक्षा । 'भिक्ष याच्ञायाम् ' (भ्वा.आ.से.), कर्मणि घञ्। ग्रास एव ग्रासमात्रम्, ततः स्वार्थे कनि ग्रासमात्रकम् । यदाहु:- "मयूराण्डप्रमाणो ग्रासः, " 'कवउ' इति लोकभाषाप्रसिद्धः, स एव ग्रासमात्रं मूलटीका । "मात्रं त्ववधृतौ स्वार्थे " [ अनेकार्थसङ्ग्रहः २ ।४३६ ] इत्यनेकार्थवचनाद् मात्रशब्दोऽत्र स्वार्थवाचकः, न तु 'प्रमाणे द्वयसज्दघ्नमात्रचः '५ ।२।३७ ॥ इत्यस्य, सति च तस्मिन् बहुव्रीहिः स्यात्, तस्मिंश्च सति 'टिड्ढाणञ्- '४।१ ।१५ ॥ इत्यादिना ङीषि (डीपि ) ग्रासमात्रीति स्यात्, ततः कनि 'केऽण: ७ ४ १३ ॥ इति ह्रस्वत्वे च ग्रासमात्रिकेति स्यात् न च तदुचितम् ग्रासमात्रमित्यस्य स्वार्थद्योतकत्वात्, यावन्मात्रमित्यादिवदिति । यद्वा मात्रशब्दोऽयं वृत्तिविषये एव तुल्ये प्रमाणे वर्तते, अत्र ग्रासस्य तुल्यप्रमाणमित्यस्वपदविग्रहे षष्ठीसमासे ग्रासमात्रम्, यथा- 'समुद्रमात्रं न सरोऽस्ति किञ्चन' [] इतिवत्, ग्रासमात्रकं कवलप्रमाणमित्यर्थः । यदुक्तम् " ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ॥ १ ॥ " [] इति ॥ (६) चम्पाशब्दविषये (पृ. ४३४, पं. ७ ) - " चमति जनदौर्गत्यं चम्पा । 'चमु अदने ' (भ्वा.प.से.), 'खल्प शिल्प - ' ( उणा - ३०८) इति बाहुलकात् पे साधुः । यद्वा चणन्त्यस्यां चण्पा । 'चण हिंसादानयोश्च' (भ्वा.प.से.), चकाराद् गतौ, भ्वादौ, घटादिरयम्, णकारस्य 'म्ना (म्नां ) धुट्वर्गेऽन्त्योऽपदान्ते ' (हैमसू - १।३।३९ ॥ इत्यनुस्वारानुत्पत्तौ 'चण्पा' इत्येव स्वमते मूलपाठः " इति ॥ (७) वितर्दिशब्दविषये (पृ. ४४८, पं. ५ ) - " 'तर्द हिंसायाम्' (भ्वा.प.से.), 'इन् सर्वधातुभ्यः ' (उणा-५५७) इतीनि तर्दिः हिंसा, विगता तर्दिः हिंसाऽस्याः वितर्दिः, स्त्रीलिङ्गः । द्वे 'चउकी' इति ख्यातायाः । दारुपरिस्कृता चतुरस्रा विश्रान्तिभूः । यन्माघः " रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः । रुतानि शृण्वन् वयसां गणोऽन्ते वासित्वमापस्फुटमङ्गनानाम् ॥१॥" [ शिशुपालवधम्, सर्गः - ३, श्लो - ५५] इति । वेदी च वास्तुशास्त्रे बहुधा । तथा च वास्तुसुतनाम्नि ग्रन्थे"चतुष्कोणा तु या वेदी स्वस्तिका सा सुखाप्तये । विवाहेऽष्टासने यज्ञे राज्ञां देवार्चनादिषु ॥२॥"[] "द्वे देवागारादौ काष्ठादिचतुष्किकायाः प्राङ्गणादिमध्यगताया वा " [ ] इति स्वामी । "दारूपरि धृता चतुरस्रा विश्रान्तिभूर्वितर्दिरिति भेदः, स्तम्भपीठिकेत्यन्ये "[ ] इति सर्वधरः । " चतुष्किकादिगृहमध्यस्थचतुः - स्तम्भोपरिवक्रकाष्ठनिर्मिताया वेदिकाया: " [ ] इति कोक्कटादय इत्येवं बहवो भेदा ग्रन्थभूयस्त्वभयान्न लिखिताः" इति ॥ (८) रसोद्भवशब्दविषये (पृ. ४८०, पं. ४४) – रसाद् अम्भस उद्भवति रसोद्भवम् । अच् । नानाविधत्रसस्थावराणां शरीरेषु सचित्तेष्वचित्तेषु वा उत्पत्तिसद्भावेऽपि पृथिवीकायत्वमेव । तदुक्तं श्रीसूत्रकृदङ्गद्वितीय श्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययनावसाने- "इहेगतिआ सत्ता णाणविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणां [पाणाणं] सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए" [ श्रीमत्सूत्रकृताङ्गम्, द्वितीयः श्रुतस्कन्धः, अध्य३, सूत्रम् - ६१] इत्यादि । वृत्तिश्चाऽस्य- "इहैके सत्त्वाः प्राणिनः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगाः नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा - सर्पशिरःसु मणयः, करिदन्तेषु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy