________________
मौक्तित्वेनोत्पद्यन्ते, तद्यथा- सर्पशिरःसु मणयः, करिदन्तेषु मौक्तिकानि, विकलेन्द्रियेष्वपि शुक्तयादिषु मौक्तिकानि, स्थावरेष्वपि वेण्वादिषु तान्येव"[ श्रीमच्छीलाङ्काचार्यविहितविवरणम्, द्वितीयः श्रुतस्कन्धः, अध्य-३, सूत्रम्
६१] इति वचनान्न दुष्टं मौक्तिकानां पृथिवीकायत्वम्" []इति ॥ (९) सागरशब्दविषये(पृ. ४८५, पं. २४)- "गर्भस्थेऽस्मिन् एतन्मात्रे सपन्त्या गरो दत्तः, ततो गरेण सह सद्यो
जातत्वात् सगरः । सगेरणाऽवतारित्वात्, 'तस्येदम्'४।३।१२० ॥ इत्यणि सागरः"[पदचन्द्रिका, भा-१, वारिवर्गः, शो-२२९] इति मिश्राः । “सगरपुत्राणामयं [तैः] खातत्वात्"[स्वोपज्ञटीका४।१०७३] इत्याचार्याः ।
"क्षीरोदादिष्वप्युपमया सागरव्यपदेशः''[]इति भट्टाः '' इति ॥ (१०)वालुकाशब्दविषये(पृ. ४९५, पं. ९)- "वलन्ते वालुकाः। 'वल संवरणे'(भ्वा.आ.से), 'कञ्चकांशुका-'
(हैमोणा-४७) इत्युके निपात्यते । वालिका इति तृतीयस्वरमध्योऽपि । यन्महेश्वर:- "वालिका वालुकावालापिंछोलाकर्णभूषणे''[विश्वप्रकाशकोशः, कान्तवर्गः, श्री-१६६] इति ।सिकतानां पृथिवीकायिकत्वेऽपि नद्यङ्गभूतत्वाद
प्कायावसरे पाठः " इति॥ (११)धनञ्जयशब्दविषये(पृ. ५००, पं. २१)- "धनं जयति यथेष्टं ददाति धनञ्जयः। 'जि जये' (भ्वा.प.अ.),
'संज्ञायां भृतृवृजि-'३।२१४६॥ इत्यादिना खच्, 'अरुर्द्विषत्-'६।३।६७॥ इति मुम् ॥
"ईश्वराद् ज्ञानमिच्छेच्च धनमिच्छेद् हुताशनात् । आरोग्यं भास्करादिच्छेज्जयमिच्छेजनार्दनात् ॥१॥"
[]इत्युक्तेश्च । “धनं जितवान् आयत्तीकृतवान् ततो धनमभिलष्यते"[]इत्यागमो वा ॥" (१२) जर्णशब्दविषये(पृ. ५१०, पं. १९)- "जीर्यति जर्णः । 'जु वयोहानौ'(त्र्या.प.से.), 'कृवृजून:(कृवृजू)-'
(उणा-२९०)इति नः" इति ॥ (परमपूज्याचार्यश्रीविजयकस्तूरसूरीश्वरमहाराजसम्पादिताभिधानचिन्तामणिकोशे (पृ. २५५) उपाध्यायश्रीहेमचन्द्रविजयसम्पादितसंशोधिताभिचिन्तामणिनाममालायां स्वोपज्ञवृत्तौ (पृ. २४८) च
'जीर्ण' इति दृश्यते) ॥ (१३) प्रसूनशब्दविषये(पृ. ५१७, पं. ६)- "प्रर॑यते प्रसूनम् । षूङ् प्राणिप्रसवे' (दि.आ.से.) प्रपूर्वः, 'स्वादय
ओदितश्च' (गणसू-३।३।१।।) [इत्योदितत्वात् 'ओदितश्च'८।२।४५ ॥] इति निष्ठानत्वम् । न्यायादिदर्शने वृक्षः प्राणी प्राणिग्रहणं प्राधान्यादुक्तमिति वा । "खूङ् प्राणिप्रसवे' (दि.आ.से.), अत्र प्राणिग्रहणमतन्त्रम् । (तेन प्रसूनादयः शब्दाः सिद्ध्यन्ति)। अन्ये तु 'सर्वे भावाः सचेतनाः' इत्यत्राऽपि प्राणित्वमाहुः । तथा च "प्रसूनं कुसुमम्''[अमरकोषः २।४॥१७॥] इत्यत्र सुभूतिचन्द्रः- 'षूङ् प्राणिप्रसवे' (दि.आ.से) । क्षपणकमते वृक्षस्याऽपि
प्राणित्वम्"[मा.धातुवृत्तिः, दिवादिः, धातुसं-२२] इति माधवः " इति ॥ (१४)सुमनःशब्दविषये(पृ. ५१७, पं. २४)- "सु प्रीतं मन आभिरिति सुमनसः । प्रादिसमासः । नित्यबहुवचनान्तत्वाद्
बहुवचननिर्देशः । “भूम्नि स्त्रियां सुमनसः"[] इति रत्नकोषः । "सुमनाः पुष्पमालत्योः स्त्रियामाधारदेवयोः (स्त्रियां ना धीरदेवयोः)" [मेदिनीकोशः, सान्तवर्गः, यो-६७] इति मेदिन्यादिदर्शनादेकत्वमपि। “पुष्पं सुमनाः कुसुमम्" [इति] नाममालादर्शनाच्च । “वेश्या श्मशानसुमना इव वर्जनीया" [मृच्छ-४।१४] इति
शूद्रकप्रयोगः । "अप्रत्याख्याये दधिसुमनसी" []इति मनौ छान्दसत्वात् क्लीबत्वम् " इति ॥ (१५) शतपदीशब्दविषये(पृ. ५६०, पं. ६०)- "शतं बहवः पादा अस्य शतपदी । 'कुम्भपद्यादिषु (कुम्भपदीषु)
च'५।४।१३९॥" इति पादस्याऽन्तलोपो ङीष् च। त्रीणि कानसीयालीति ख्यातायाः । अत्र हि सूत्रे मूलटीकायां च पाठविपर्यासो लेखकदोषात् सम्भाव्यते, स च पाठो न शिष्टसम्मतः, यतः कर्णजलौकायास्त्रीन्द्रियत्वसद्भावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org