________________
१०
प्रज्ञापनादिभिः सह विरोधात्, तथा च प्रज्ञापनासूत्रप्रथमपदत्रीन्द्रियाधिकारः "गौमी (गोम्ही ) हत्थिसोंडा " [ श्रीप्रज्ञापनोपाङ्गम्, त्रीन्द्रियप्रज्ञापना, सू-२८] इत्यादि, "गोमी (गोम्ही) कर्णशृङ्गालिका, जे यावण्णे तहप्पगारा, ये चाऽपि चान्ये तथा प्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः " [ श्रीमलयगिर्याचार्यविरचितविवरणम्, पृ. ४२ ]इति तद्वृत्तिः इति ॥" ( परमपूज्याचार्य श्रीविजयकस्तूरसूरीश्वरमहाराजसम्पादितकोशे पाठविपर्यासो न दृश्यते) ॥
(१६) झिल्लिकाशब्दविषये (पृ. ५६३, पं. ५२ ) - बाहुलकाद् ह्रस्वत्वे झिल्लिका । "झिल्ली वाद्यभेदः, तत्तुल्यशब्दाद् झिल्लीव । कनि, 'केऽणः ' ७।४।१३ ॥ इति ह्रस्वत्वे [टाप्] झिल्लिका "[पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्री - २४३ ] इति मिश्राः । झिल्लीत्यपि ।
"दूती विद्युदुपासिता सहचरी रात्रिः सहस्थायिनी । दैवज्ञो दिशति स्वनेन जलदः प्रस्तानवेलां शुभाम् । वाचं माङ्गलिकीं तनोति तिमिरस्तोमोऽपि झिल्लीरवैर्जातोऽयं दयिताभिसारसमयो मुग्धे ! विमुञ्च त्रपाम् ॥१॥ [ ] इति भानुदत्तः" इति ॥
(१७) तुङ्गशब्दविषये (पृ. ६५६, पं. ३७ ) - "तुज्यते (तुञ्ज्यते) हिंस्यते तुङ्गम् । 'तुजि हिंसायाम् ' (भ्वा.प.से.), 'तुजि पालने ' (भ्वा.प.से.) वा, अस्माद् घञि, 'चजो: - ७।३ १५२ ॥ इति कुत्वम्, वार्तिककारमते तु न्यक्वादित्वात् कुत्वम्" इति ॥
( १८ ) प्रकाण्डशब्दविषये (पृ. ६६२, पं. २ ) - " प्रकाण्डं पुंक्लीबलिङ्गम् । " अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयो: ''[ ] इति मेदिनिः । तल्लजादय आविष्टलिङ्गकाः, आविष्टमागृहीतमपरित्यक्तं स्वलिङ्गं यैस्ते आविष्टलिङ्गकाः, लिङ्गान्तरसम्बन्धेऽपि न विशेष्यलिङ्गका इति भावः । यथा - कुमारीतल्लज:, अश्वमतल्लिका । " अरिर्मधोरैक्षत गोमतल्लिकाम् "[ शिशुपालवधम्, सर्गः १२ श्री - ४१ ] इति माघः । गोप्रकाण्डमिति, 'दण्डकानध्यवात्तां यौ वीर ! रक्षः प्रकाण्डकौ [ भट्टिकाव्यम्, सर्ग: ५, लो - ६ ] इति भट्टिः । " अत एव मतल्लिकादीनां रूढिशब्दत्वात् 'प्रशंसावचनैश्च' २ ।१ ६६ ॥ इति समासः ।" [पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२९] इति मिश्राः । उपलक्षणत्वादाविष्टवचनाश्च यथा- तातश्च ते पादाश्च तातपादा इत्याद्यपि सिद्धं ज्ञेयम् " इति ॥
44
(१९) जातिशब्दविषये (पृ. ६९४, पं. ८ ) - " जायतेऽस्यां जातिः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'स्त्रियां क्तिन् '३ ॥३ ॥९४ ॥, ' अनुनासिकस्य - ' ६।४।१५ ॥ इति दीर्घः । गौरयं गौरयमित्यादिसदृशाभिलापज्ञानहेतुर्जातिरित्यर्थः । यदुक्तम्- "आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् "[ काशिका४ |१ |६३ ॥ ] इति । जातमित्यकारान्तोऽपि क्ली । " जातं जात्योघजन्मसु ''[विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १४ ] इति महेश्वरः । " जाति: सामान्यम् ' [ ] इति तट्टीका " इति ॥
(२०) प्रत्याहारशब्दविषये (पृ. ६९८, पं. ३५ ) - " प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णा अत्रेति प्रत्याहारः । बाहुलकादधिकरणे घञ्, अण् इण् यणादिः । " [ अन्नादिक ] विषयेभ्य इन्द्रियाणामाकर्षणं च " [ अम. क्षीर. ३ ।२ । १६ ॥ ] इति क्षीरस्वामी अर्थद्वयं प्राह । इह त्वाचार्याभिप्रायेणाऽऽद्य एवार्थो ज्ञातव्यः, अपरस्य तु - " प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ' [ अभि-, श्रो- ८३] इत्यनेन प्रागेव व्याख्यानात् " इति ॥
11
( २१ ) १५२५तमश्लोकस्याऽवतरणे (पृ. ६९८, पं. ५२ ) - " सङ्ग्रहमाह - सङ्कलय्यार्थकथनं सङ्ग्रहस्तम्- " इति ॥ अन्यान्यप्युदाहरणानि बहूनि सन्ति, अत्र विस्तरभयान्नोल्लिखितानि ॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org