Book Title: Vyavahar Sutra Pithika Author(s): Malaygiri Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का foy श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः। तृतीयो विभागः। वैयावृत्ये च सामर्थ्यमस्ति केवलमुभयं युगपत्कर्तुं न शक्नुवन्ति, किन्त्वन्यतरत्ते एकस्मिन् काले आत्मपरयोरन्यमन्यतरं तारयन्तीति अन्यतरकाः / / अायतर परतरे विय, आयतरे अभिमुहे य निक्खित्ते। एक्केकमसंचइए, संचइ उग्घायमणुग्घाया // 299 / / आत्मतरश्च स परतरश्च आत्मतरपरतर उभयतर इत्यर्थः / यश्चात्मतर एतौ द्वावपि प्रायश्चित्तवहनाभिमुखौ भवतः, / ततस्तस्मिन् प्रत्येकं प्रायश्चित्तमभिमुखमुच्यते / यस्तु परतरोऽन्यतरको वायावत् वैयावृत्यं करोति, तावत्तयोः प्रायश्चित्तं निक्षिप्त क्रियते, इति तबिक्षिप्तमभिधीयते / एकैकमभिमुखं निक्षिप्तं च द्विधा संचयितमसंचयितं च, पुनरेकैकं द्विधा-उद्घातमनुघातं च / तदेतत् संक्षेपत उक्तमिदानी विस्तरोऽभिधेयस्तत्र यः प्रथम उभयतरस्तस्येमं दृष्टान्तमाचार्याः परिकल्पयन्ति सेवक दृष्टान्त भावना जह मासतो उलद्धो, सेवयपुरिसेण जुयलयं चेव / तस्स दुवे तुट्ठीतो वित्तीय कया जुयलयं च // 30 // एगो सेवगपुरिसो, रायं ओलग्गइ, / सो राया तस्स वित्तिं न देइ, / अन्नया तेण राया केणइ कारणेण परितोसितो, / ततो तेण रण्णा तस्स तु?ण पइदिवसं सुवण्णमासगो वित्ति कया, | पहाणं च सेवत्थजुयलं दिन, तथा चाह-'जहेत्यादि यथेति दृष्टान्तोपन्यासे माषक: सुवर्णमाषक: सेवकपुरुषेण लब्धो, युगलं च वस्त्रयुगलं च तस्य च सेवकपुरुषस्य द्वे तुष्ट्यौ जाते, एकं वृत्तिः कृता द्वितीयं वस्त्रयुगलमिति एष दृष्टान्तोऽयमुपनयः, For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 276