Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 4 // अन्पेऽपि पञ्चरात्रिं दिवादिके प्रायश्चित्तस्थाने बहुकं भिन्नमासादि दीयते / यस्माच्च परतरः परमाचार्यादिक वैयावृत्यकरणतस्तारयति / ततो बहुकेपि पाराश्चितादिके प्रायश्चित्ते प्राप्ते स्तोकं भिन्नमासादि दीयते, तदेवं स्तोके बहुके वा प्रायश्चित्तस्थान प्राप्ते भिन्नमासादिदाने कारणमुक्तम् / सम्प्रति भिन्नमासादि यथा दातव्यं तथा प्रतिपादयति,-- वीसट्टारस लहु गुरु, भिन्नाणं मासियाणमावन्नो / सत्तारस पन्नारस, लहगुरुगा मासिया होति // 304 // स उभयतरकः प्रस्थापितं प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि स्तोकं बहुं वा उद्घातमनुद्घातं वा प्रायश्चित्तस्थानमन्यदापनस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातं तमुद्घातो भित्रमासो दीयते / यदि पुनरप्याद्यते ततो भूयोऽपि भिन्नमासो दीयते, एवं विंशतिवारान् भिन्नमासो दातव्यः / / 20 // यदि विंशतेर्वारेभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वा प्रायश्चित्ते प्राप्ते लघुमासो दीयते / एवं भूयो भूयस्तावद्यावत् सप्तदश वारा 17, नवरमत्र स्तोकं पञ्चकादिभिन्नमासान्तं बहु द्विमासादि पाराश्चितान्तं ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिक | दातव्यं / अत्र स्तोकं पञ्चकादिलघुमासपर्यन्तं बहुत्रिमासादिपाराश्चितान्तं / एवं त्रैमासिकादिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि / ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते / / ततस्त्रैमासिकं सप्तदश वारान् दीयते 17 / ततोऽपि परतो यदि पुनः पुनराद्यते, ततः सप्तवारान् लघु चातुमासिक दीयते 7 / ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते ततः पञ्च वारान् लघु पञ्च मासिकं दीयते / यदि ततोऽपि परतो भूय आपत्तिस्ततः एकवारं लघु पाण्मासिकं दीयते / तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् छेदो दीयते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 276