Book Title: Vyavahar Sutra Pithika Author(s): Malaygiri Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छम्मास तवो च्छेदाइयाण तिगतिगतहेक्क चरमंच संवट्टियावराहे, एक्कारस पयाउ संचइए // 297 // संचयिते कथंभूते ? इत्याह-संवर्तितापराधे संवर्तिताः-पिण्डीभृता अपराधा यत्र तत् संवर्तितापराधं / तथाहि बहुषु मासेषु प्रतिसेवितेषु स्थापनारोपणाप्रकारेण तेभ्यो मासेभ्यो दिनानि दश दश पञ्च पञ्चेत्यादिरूपतया गृहीत्वा पाण्मासिक तपो निष्पाद्यते / ततो भवति संचयितं संवर्तितापराध, तस्मिन्नेकादश पदान्येवं भवन्ति,-प्रथमवेलायामुद्घातं पाण्मासिक तपः / ततः छेदादीनां त्रिकं त्रिकं / किमुक्तं भवति ? तदनन्तरं वेलात्रयमपि यावत् च्छेदत्रिक, ततो मूलत्रिकं तदनन्तरमनवस्थाप्य त्रिकं, | तथा एकमेकं वेलं वा चरमं पाराश्चितमिति / एवं अनुद्घातितेऽपि संचयिते एकादश पदानि वाच्यानि / सम्प्रति येन प्रायश्चित्तस्याहाः पुरुषास्तान् प्रतिपादयति,| पच्छित्तस्स उ अरिहा इमे उपुरिसाचउठिबहा होति। उभयतर आयतरगा परतरगा अपतरगा य॥२९८॥ प्रायश्चित्तस्याही योग्या इमे चतुर्विधाश्चत्वारः पुरुषा भवन्ति, / तद्यथा-उभयतरा आत्मतरकाः परतरका अन्यतरकाश्च / तत्र ये उत्कषेतः षण्मासानपि यावत्तपः कुर्वतोऽग्लानाः सन्तः प्राचार्यादीनामपि वैयावृत्यं कुर्वन्ति, तत् लब्ध्युपतत्वात्, ते उभयमात्मानं परं चाचार्यादिकं तारयन्तीत्युभयतराः, | पृषोदरादित्वात इस्वः ये पुनस्तपोबलिष्ठा यावृत्यलब्धिहीनास्त तप एव यथोक्तरूपं कुर्वन्ति, न वैयावत्यमाचार्यादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः, / स्वार्थिकप्रत्ययविधानात आत्मतरकाः, / ये पुनस्तपः कर्तुमसमर्था वैयावृत्यं चाचार्यादीनां कुर्वन्ति, ते परं तारयन्तीति परतरकाः / येषां तपसि For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 276