Book Title: Vyakhyapragnapti Sutra Author(s): Abhaydevsuri Publisher: ZZZ Unknown View full book textPage 4
________________ २ शतके उद्देशः१ मृतादि भवादि ०८९ वोच्छिन्नसंसारपेयणिजे ति 'नो नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्य कर्म यस्य स तथा, अत एव 'नो ज्याख्या नि हयडे'त्ति अनिष्ठितप्रयोजनः, अत एव 'नो निहियट्टकरणिज्जेत्ति 'नो' नव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स प्रज्ञप्तिः अभयदेवी तथा यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे पूर्व प्राप्तमिदानी पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्यंति 'इत्यर्थम्' एनमर्थ अनेकशस्तिर्यड्नरनाकिनारकगतिगमनलक्षणम् , 'इत्यत्त' मिति पाठान्तरं, तत्रानेन प्रकारेणेत्थं तद्भाव इत्यत्वं, वृत्तिः हम प्यादित्वमिति भावः अनुवारलोपश्च प्राकृतत्वात् , 'हन्वं' शीघ्रम् आगच्छत्ति प्रामोति, अभिधीयते च कषायोदयात्प्रतिपति॥१९६॥15 | तचरणानां चारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइ अणतं पुणोवि पडिवाय"ति । स च संसारचक्रगती मुनिजीवः प्राणादिना नामषद्केन कालभेदेन युगपञ्च वाच्यः स्यादिति विभणिषुः प्रश्नयनाह-से ण'मित्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्न सामान्यवाचित्वाच्च नपुंसकलिङ्गन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, वक्तव्यः स्यात् , प्राकृतत्वाच सूत्रे नपुंसकलिङ्गताऽस्पति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात् ? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तब्ब'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्य स्यात् यदोच्छ्वासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्वासादिधयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सच्चो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवाक्यमेवेदं, अतोन युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवे' इत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति'अनुभवति तस्माजीव इति वक्तव्यः स्यादिति । 'जम्हा सत्ते सुभासुभेहिं कम्महिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तः आ०१११ 2992906Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 367