Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०५॥
कल
उद्देशः१ स्कन्दक चरित्रं सू० ८९
| अदूरे आगतः, से चावधिस्थानापेक्षयापि स्यात् , अथवा दूरतरमार्गापेक्षया [ग्रंथा० ३०००] क्रोशादिकमप्यदूरं स्यादत उच्यते|'बहुसंपत्ते'ईषदूनसंप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अद्धाणपडिवन्ने त्ति मार्गप्रतिपन्नः, किमुक्तं भवति ?-'अंतरापहे वत्ति विवक्षितस्थानयोरन्तरालमार्ग वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं, | कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अजेवणं दच्छसि इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे' इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वा मिहिता तदा मध्याह्नस्योपरि मुहर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यांदुक्तम् , अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्तादिरेव कालः संभवति, न बहुतर इति । 'अगाराओ'ति निष्क्रम्येतिशेषः 'अनगारिता' साधुतां 'प्रबजितुं गन्तुम् , अथवा विभक्तिपरिणामादनगारितया 'प्रवजितुं' प्रव्रज्यां प्रतिपत्तुम् , 'अब्भुढेतित्ति आसनं त्यजति, यच्च भगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात् , तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्र 'सागयं खंदय'त्ति 'स्व गतं' शोभनमागमनं तव स्कन्दक ! महाकल्याणनिर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागर्य'ति अतिशयेन स्वागतं, कथश्चि| देकार्थी वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्पति, 'अणुरागयं खंदय !'त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागर्य'ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहंति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव'त्ति तस्यामेव दिशि 'अत्थे समत्थे ति अस्त्येषोऽर्थः?, 'अट्टे
॥२०५।। प्र०आ०११६

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 367