Book Title: Visheshavashyak Bhashyam Uttararddh Author(s): Jinbhadra Gani Kshamashraman Publisher: Rushabhdev Keshrimal Shwetambar Samstha View full book textPage 3
________________ विशेषाव० उपक्रमः कोट्याचार्य वृत्ती ॥३॥ ॥३॥ SAMRENUMA5%2-3- महाभाष्यविवेचनं यद्यपि श्रीमभिरेव महाभाष्यस्य विहिता व्याख्या स्वयं, संस्मरन्ति च तां मलधारगच्छीयश्रीहेमचन्द्रपादा अस्यैव विवरणे, पूज्याः कोटयाचार्या अपि प्रस्तुतवृत्तौ २४५ पत्रे-अत पब पूज्यपादैः स्वटीकायां प्रायोग्रहणं कृतमिति स्वोपशा स्मरंति व्याख्यां तां, आकलय्य च संक्षिप्ततमामेनां व्याख्यां विस्तृतां चकः श्रीपूज्याः कोट्याचार्याः, यद्यपि न लभ्यते सहसा स्वोपशा वृत्तिस्तथापि मलधारीयश्रीहेमचन्द्रसूरिकृतविवरणकाले सुलभा साऽऽसीत्, अत एव च निम्नोल्लेखास्तत्र-गाथा ३५० इति वृद्धटीकाकार:४७० मूलटीकयोरगृहीतत्वात् ५०० क्षमाश्रमणपूज्यैः-चिरन्तनटीकाद्वये-जिनभद्रगणिक्षमाश्रमणटीकायां चादर्शनात् ८२१ पतदपि मूलटीकाकृता दृषितमेव ८२३ चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् २७८४ पूर्वटीकाकारी २७०० (?) पूर्वटीकायां २७१६ (?) भाष्यटीकाकृता ।। पूज्यपादकोटयाचार्या:-श्रीहेमचन्द्राचार्याः स्ववृत्तौ ५३१ गाथायां कोटयाचार्यव्याख्यानं त्वित्युक्त्या पूज्यपादानां साक्षात् स्मरण | विशेषावश्यकव्याख्याकारतया कुर्वन्ति, ततश्च ५००-८२३ गाथयोः चिरन्तनटीकाद्वये श्रीकोट्याचार्यव्याख्यानं प्रस्तुतमेव, किंच द्वादशशताब्द्यारम्भोत्पन्ना श्रीहेमचन्द्रा यान् चिरन्तनटीकाकारतया स्मरन्ति न ते अर्वाग्भाविनः, तदनेन ये शीलांकाचार्या पव कोट्याचार्या इति व्यवहरन्ति ते व्युदस्ताः, तत्कल्पनामूलं तु "निशीथेऽथ प्रभुं धर्मध्यानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥१॥ श्रीशीलांकः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः। वृत्तिमेकादशांग्याः स, विदधे धौतकल्मषः ॥२॥ अङ्गद्वयं विनाऽन्येषां, कालादुच्छेदमाययुः। वृत्तयोऽमुत्र संघानुग्रहायाद्य कुरुद्यमम् ॥३॥” इत्थंभूतः प्रभावकचरित्रान्तर्गतो लेखः, पर स भ्रममूलः, यतः श्रीमन्तोऽभयदेवसूरयः स्पष्टतममाचख्युः स्थानांगवृत्तौ "विविधार्थरत्नसारस्य देवताधिष्ठितस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण कुतोऽपि कारणादनुन्मुद्रितस्यस्थानांगस्य-उन्मुद्रणमिवानुयोगः प्रारभ्यते" अतः न स्थानांगादीनां वृत्तयोऽभवन् प्राक्काले इति स्पष्टतममेव, किंच-जिनवल्लभोऽप्यष्टसप्ततिकायामुवाच स्थानांगादीनां प्राक् श्रीसूरिभ्योऽनुन्मुद्रितता, प्रभावकचरितोक्तिस्तु किवदन्तीमूलेति चरित्रकारैरादावेवोदाहत, किंवदन्त्यश्च काश्चनैव सत्या इति न तदाश्रयेण ग्रन्थकारवचनमन्यथाकर्त्तमुचितं, यश्च कुवलयमालाकाराणामुद्योतनसूरीणां दीक्षागुरवः एते शीलांकाचार्या इत्युक्तवान् स तु तत्तायरिओत्ति नाम्नः तत्वादित्यनाम्नो भेदमविमृश्य, किंच 'सीलंगविउलसालो' इति विशेषणपरं पद SOURCTCRI MARCHPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 496