Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 3
________________ ॥ अहेम् ।। श्रीविजयधर्मसूरिगुरुभ्यो नमः । श्रीविशेषावश्यकभाष्यम् । शिष्यहिताख्यया बृहद्व्याख्यया समुल्लसितम्। श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः सद्धोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः। हप्ताशेषकुवादिकौशिककुलप्रीतिप्रणोदक्षमो जीयादस्खलितप्रतापतरणिः श्रीवर्धमानो जिनः॥१॥ येन क्रमेण कृपया श्रुतधर्म एष आनीय मादृशजनेऽपि हि संप्रणीतः। श्रीमत्सुधर्मगणभृत्ममुखं नतोऽस्मि तं सूरिसङ्घमनघं स्वगुरूंश्च भक्त्या ॥२॥ आवश्यकप्रतिनिबद्धगभीरभाष्यपीयूपजन्मजलधिर्गुणरत्नराशिः। ख्यातः क्षमाश्रमणतागुणतः क्षितौ यः सोऽयं गणिर्विजयते जिनभद्रनामा ॥३॥ यस्याः प्रसादपरिवर्धितशुद्धबोधाः पार ब्रजन्ति सुधियः श्रुततोयराशेः । सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥ ४ ॥ इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिपडध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं तावदर्थतस्तीर्थकरैः, सूत्रतस्तु गणधरैविरचितम् । अस्य चातीव गम्भीरार्थतां सकलसाधु-श्रावकवर्गस्य नित्योपयोगितां च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुस्वामिनैतव्याख्यानरूपा " ऑभिणियोहिअनाणं सुयनाणं चेव ओहिनाणं च" इत्यादिप्रसिद्धग्रन्थरूंपा नियुक्तिः कृता । तन्मध्ये च सामा १ ख. 'रूपाव' । २ ख. 'गभीरा'। ३ आभिनिबोधिकज्ञानं ( मतिज्ञानं ) श्रुतज्ञानं चैवाऽवधिज्ञानं च ४ ध, 'खरूपा' । Jan Education Inter For Personal and Private Use Only www.jaineitrary.ary

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 202