Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
एवमष्टाङ्गसंसिद्धिरस्मात्तात्कालिकी स्मृता । नक्षत्रयोगसंसिद्धिः प्रोक्ता सङ्कल्पवाचने ।। शेषमष्टाङ्गकं ज्ञेयं पारायणविनां वरैः । इति ज्ञात्वा श्रीमतां च विनियोगं समाचरेत् ।। वर्षाक्षराणि षट्त्रिंशदकारादीनीत्युदीर्यते । मासाश्च पोडश प्रोक्ताः स्वराणां षोडशत्यतः ।। मासस्य दिनसंख्या तु पत्रिंशच्च प्रकीर्तिता । अकारादिक्षकारान्ता षट्तिशद्दिनसन्ततिः ।। नित्याश्च षोडश प्रोक्ताः षोडशस्वरसंस्थिताः । कामेश्वर्यादिचित्रान्तः सर्वान्ते षोडशी भवेत् ।। पर्यायक्रमतो ज्ञेयमिति शास्त्रस्य डिण्डिमः ।
कलियुगदिनानि = १५७७९१७८२ दि+२४ घटी कलियुगेऽवान्तरयुगा: = १२९६ । .:. युगदिनानि = ७४६४९६ । परिवृत्तिदिनानि = २०७३६ । वर्षादिनानि =५७६ । वर्षमासा = १६ । मासदिनानि = ३६ । नित्या = १६ । पक्षे दिनानि अतः १५ + १ = १६ । वारसंख्या = ९ । दिनेटिकोदय = ६०। १ वर्षम् = १६ मासाः । १ परिवृत्तौ = षटुत्रिशद्वर्षाणि । १युग-पत्रिशतपरिवृतयः ।
अतोऽहर्गणे ७४६४९६ मितैर्दिवसे हते लब्धा गतयुगाः । शेषदिनानि २०७२६ भाज्येन भक्तानि लब्धा गताः परिवृतयः। तच्छेष ५७६ दिनभक्तं लब्धानि गतवर्षाणि । तच्छेष ३६ दिनक्तं लब्धा गतमासाः । एवं युगपरिवृत्ति वर्षमासानयम ।
For Private and Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141