Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
१९ खेचरी मुद्रा - वामं भुजं दक्षभुजे दक्षिणं वामदेशतः निवेश्य योजयेत्पश्चात्परिवर्त्य क्रमेण हि ||३३|| कनिष्ठानामिकायुग्मे तर्जनीभ्यां निरोधयेत् । मध्यमे सरले कृत्वा योनिबत्सरलौ ततः ||३४|| अङ्गुष्ठौं खेचरी पार्थिवस्थानयोजिनी | पियेयं सर्वदेवानां खेचरत्वप्रदायिनी ||३५|| २० बीजमुद्रा - परिवर्त्याञ्जलिं कृत्वा कनिष्ठाग्रगते ततः । मध्यमे स्थापयद्देवी कनिष्ठे धारयेत्ततः ||३६|| अनामिकाभ्यां सुदृढ तर्जनीमध्यमायुगम् । अङ्गुष्ठाभ्यां समायोज्यमर्धचन्द्राकृति प्रिये ||३७|| बीजमुद्रेयमाख्याता सर्वानन्दकरी प्रिये । पश्यतां इयं सर्वत्रिखण्डा मुद्रा ||३८|| २१ प्रासमुद्रा - ईषत्संकुचिता देवी ईषत्संश्लिष्टरूपिणः । ऊर्ध्वामा अङ्गुला देवी मुद्रा प्रासाभिधा भवेत् ॥ ३९ ॥ कनिष्ठानामयोर्मध्या तर्जन्योर्मध्यनाभयोः । कनिष्ठादित्रिषु तथा चतुर्ध्वङ्गुष्ठयोगतः ||४०|| प्राणादिपञ्चसंख्याता मुद्रा होया वरानने । एवमेष समाख्याती मयाऽर्ध्यादिविधिः क्रमात् ॥४१॥
२२ बाणमुद्रा -यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये । बाणमुद्रेयमाख्याता रिपुवर्ग निकृन्तनी ||४२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 137 138 139 140 141