Book Title: Vaiyakaran Bhushansara Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi Publisher: Chaukhambha Sanskrit Series Office View full book textPage 8
________________ भूमिका । ग्मा, ज्मा, क्षमा, क्षा, क्षमेत्यारभ्य वसवः वाजिनः, देवपत्न्यो देवपत्न्य इत्यन्तो यः पदानां समाम्नायः समाम्नातस्तस्मिन् ग्रन्थे पदार्थावबोधाय परापेक्षा न विद्यते। एता. वन्ति पृथिवीनामानि, एतावन्ति हिरण्यनामानीत्येवं तत्र तत्र विस्पष्टमभिहितत्वात्। यद्यपि व्याकरणबलेन केषांचिनिर्वचनानां सिद्धिर्भवितुमर्हति, तथापि न सर्वेषां सिद्धिरस्ति । अतः श्रूयते च-"तदिदं विद्यास्थानं व्याकरणस्य कात्स्न्यै स्वार्थसाधकञ्च"इति (नि० १३१६ )। तस्माद्वेदार्थवाबोधायोपयुक्तं निरुक्तमिति ॥ शिक्षा नाम-वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा । तथा च तैत्तिरीयोपनिषदारम्भे समामनन्ति-"शिक्षा व्याख्यास्यामः-वर्णः, स्वरः, मात्रा, बलं, साम, सन्तान इत्युक्तः शिक्षाऽध्यायः" (ते. आ० ७१२) इति । वर्णोऽकारादिः । स्वरः-उदात्तादिः । मात्रा-हस्वादिः । बलम्-स्थानप्रयत्नौ। सामशब्देन साम्यमुक्तम् । अतिदुतातिविलम्बितगीत्यादिदोषराहित्येन माधुर्यादिगुणयुक्तत्वेनोच्चारणं साम्यम् । एतत्सर्वे पाणिनीयशिक्षायां स्पष्टम् । सन्तानः-संहिता, 'वायवायाहि इत्यत्रावादेशः । 'इन्द्राग्नी आगतम्" इत्यत्र प्रकृतिभावः। एतच व्याकरणेऽभिहितत्वाच्छिक्षायां नोक्तम् । शिक्ष्यमाणवर्णातिवैकल्ये बाध इति पाणि. नीयशिक्षायामेवाभिहितम् । तथाहि-"मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥ (पा शि०५२) ___"इन्द्रशत्रुर्वर्धस्व इत्यस्मिन्मन्त्रे (तै० सं० २।४।१२।१ ) विवक्षितेऽथें तत्पुरुषसमासे "समासस्य" (पा० सू० ६।१।२२३) इति सूत्रेण तत्पुरुषत्वाद् अन्तादात्तेन भवितव्यम् । आधुदात्तस्तु प्रयुक्तः, तथासति पूर्वपदप्रकृतिस्वरत्वेन बहुव्रीहित्वादइन्द्रो घातको यस्य इत्यर्थः सम्पन्नः । अतः स्वरवर्णाद्यपराधनिरासाय शिक्षाग्रन्थोऽप्यावश्यकः। व्याकरणन्नाम-अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययादीन् विशेषेण-संस्कारविशेषेण, आ-समन्तात्-वैदिकाल्लौकिकांश्च शब्दान् करोतीति तथाभूतः पाणिन्या. दिमहर्षिप्रणीतो ग्रन्थसमूहः। अस्य व्याकरणस्य प्रणेतारोऽष्ट नव वा आचार्या बभूवुः । केचित् इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥१॥ इत्याहुः । __ अपरे तु-ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् । ___ सारस्वतं चापिशलं शाकलं पाणिनीयकम् ॥ इत्याहुः । सत्स्वपि सर्वेषु व्याकरणेषु सार्वलौकिकवैदिकशब्दानां नितरां व्युत्पादकं पाणिनीयव्याकरणमेव । अत एवास्य वेदाङ्गत्वम् । इदमेवाभिप्रेत्य “इदमक्षरच्छन्दो वर्णशः समनुक्रान्तं यथाऽऽचार्या ऊचुः, ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नाय. मित्याचक्षते, "न भुक्त्वा न नक्तं प्रब्रूयात् ब्रह्मराशिः” इति ऋक्तन्त्रव्याकरणेऽस्य चतुर्दशसूत्रकदम्बस्याम्नायत्वमुक्तम् , तन्मूलकत्वादस्यैव व्याकरणस्य वेदाङ्गत्वं युक्तम् । अत एवास्य पाठे सर्ववेदपारायणजं पुण्यमिति शब्देन्दुशेखरे नागेशेन स्पष्टमभिहितम् । छान्दोग्योपनिषदि व्याकरणमुपक्रम्य "वेदानां वेदः” इत्युक्तम् । . अत्र पराशरोपपुराणम् पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ॥ इति ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 502