Book Title: Vaiyakaran Bhushansara Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi Publisher: Chaukhambha Sanskrit Series Office View full book textPage 7
________________ सिद्धम् । भूमिका। .. स्मृतिः-अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । ... आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति । तस्मात्कर्तृदोषशङ्काया अनुदयात् मन्त्रब्राह्मणात्मकस्य वेदस्य यथार्थ प्रामाण्यं अतः सर्वप्रमाणशेखरायमाणस्य परमपूतस्य भगवतो वेदस्योपासना द्विजातिभिरवश्यं विधेयेति सर्वत्र मुक्तकण्ठेन निगदन्ति श्रुतिस्मृत्यादयः ।। ___ श्रुतिः-"वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो विदन्ति, परा चैवापरा च । तत्रापरा-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा, कल्पो व्याकरणम् , निरुक्तं छन्दो ज्यौतिषमिति । अथ-परा यया तदक्षरमधिगम्यते” (मुण्ड० १३१४४) इति ॥ स्मृतिः-योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । ___ सजीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ इति । अत्र तत्रभवान् पतञ्जलिरपि- . "ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च" इत्यादिविजातीन् बाढं वेदाध्ययने प्रवर्तयतीत्यलम्पल्लवितेन । यश्च किल द्विजन्मा वेदमधीस्यापि अर्थं न विजानाति सोऽयं पुमान् भारमेव वहति केवलम् । ___ "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्मश्नुते नाकमेति ज्ञानविधूतपाप्मा" (नि०१६ ) इति श्रुतेः । तस्माद्विजातीनां घेदार्थज्ञानाय शिक्षादिषडङ्गस्याध्ययनम्परममावश्यकमिति न तिरोहितं तत्र. भवताम्भवतां विपश्चिताम् । उक्तं हि पाणिनिशिक्षायाम् छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुतं श्रोत्रमुच्यते ॥ ४१॥ शिक्षा प्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥ ४२ ॥ इति । . छन्दः-छन्दसामुपयोगस्तावत्कर्मकाण्डेऽत्यावश्यकः श्रूयते च "गायत्रीभिर्ब्राह्मणस्यादध्यात्, त्रिष्टुभो राजन्यस्य, जगतीभिर्वैश्यस्य" ॥ इति । (तै० ब्रा० १११।९।६) तत्र मगणयगणादिसाध्यो गायत्र्यादिविवेकश्छन्दोग्रन्थमन्तरा न सुविज्ञेयः॥ ___ कल्पो नाम-आश्वलायनापस्तम्बबोधायनादिसूत्रम् । कल्प्यते समर्थ्यते यागप्रयोगोऽत्रेति व्युत्पत्तेः । "इषे त्वा"इत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता इत्या. पस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः । कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठा. ममुपदिश्योपकरोति। । ज्योतिषस्य प्रयोजनम्-“यज्ञकालार्थसिद्धये इति तस्मिन्नेव ग्रन्थे विहितम् । कालविशेषविधयश्च श्रूयन्ते-"सम्वत्सरमेतद्वतं चरेत्" (तै० ब्रा० १०६३४ ) "सम्वत्सरमुख्य भृत्वा" इत्येवमादयः संवत्सरविधयः। "वसन्ते ब्राह्मणोऽग्निमादधीत" "ग्रीष्मे राजन्य आदधीत" "शरदि वैश्य आदधीत" (तै० ब्रा० ११) इत्याचा ऋतुविधयः । एवं मासपक्षतिथिकालनक्षत्रविधयः श्रूयन्ते। अतः कालवि. शेषान् अवगमयितुं ज्योतिषमुपयुज्यते। निरुक्तनाम–अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् । यथा-गौः,Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 502