Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 377
________________ ३३० .. तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ टी-एकजीवस्य चेत्यादि भाष्यम् । जीवो ज्ञानदर्शनोपयोगस्वभावः स कदाचित् सामान्येन निर्दिश्यते जीव इत्याक्षिप्तसकलनारकादिभेदो गोशब्दवत् समस्तस्त्रभेदाक्षेपी, कदाचित् प्रतिविशिष्टोपाधिव्यवच्छिन्नो व्यक्तिपदार्थाश्रयणेन, तत्रैकशब्देन सर्वजीवराशिव्यवच्छेदमादर्शयति, एकजीवस्य एकस्या व्यक्तेरिति, चशब्देनासङ्ख्येयप्रदेशतामात्मन्यनुसन्धत्ते, प्रसिद्धधर्मादिक्रमोल्लङ्घनाभिधानं तुल्यप्रदेशाख्यानलाघवार्थम् । एकयोगाकरणाचोनीयते सूत्रकाराभिप्रायः सङ्कोचविकासस्वभावास्तुल्येऽप्यसङ्ख्येयप्रदेशत्वे जीवप्रदेशाश्चर्मादिवत्, धर्माधर्मयोस्तु सततमेव विततावस्थिताः, ते च सङ्कोचविकासस्वाभाव्याज्जातुचिनिकृष्टकुन्थुविग्रहयाहिणः कदाचित् तामेव सङ्ख्यामजहन्तः स्थूलं करिणः शरीरमाददते विकाशित्वादिति ॥८॥ आकाशस्यापि यथोक्तद्रव्यवत् प्रदेशनियममभिधित्सुराह सूत्रम्-आकाशस्यानन्ताः ॥५-९ ॥ टी०-अगवाहदानादाकाशमित्येवं न गृह्यते लोकाकाशमात्रसिद्धेः, नबलोकेऽवगाढमस्ति किञ्चिज्जीवपुद्गलादि, तदभावादनाकाशमेव तत् स्यात्, इष्यते च, अतः संज्ञैवेयमनादिकालीना द्रव्यान्तरस्य धादिसंज्ञावत् ॥ अन्ये मन्यन्ते-तस्याप्यवगाहदानशक्तिरस्ति, सा त्ववगाहकाभावान व्यज्यते, यदि स्यादवगाहकं तत्र व्यापारं यायात् तदवगाहपरिणत्या, न त्वस्ति, तस्मात् तदप्यवगाहदानशक्तियुक्तत्वादाकाशम् ॥ अपरे पुनरुपचारमाचरन्ति-आका __ शवदाकाशं शुषिरदर्शनादिति, एतदप्यसत्, सिद्धान्तापेतत्वात् । अथ ये अलोकेऽवगाह हः व्याचक्षते-व्ययोत्पादौन स्वतो व्योम्नः, किन्तु परप्रत्ययाजायेते, अवगाहक सन्निधानासन्निधानायत्तावुत्पादव्ययाविति, तेषां कथमलोकाकोशे? अवगाहकाभावाद् , अर्धवैशसं च सतो लक्षणं स्याद् , व्यापि चेष्यते स्थित्युत्पादव्ययत्रयमिति । अत्रोच्यते-य एवं महात्मानस्तर्कयन्ति स्वबुद्धिबलेन पदार्थस्वरूपं तेत्र निपुणतरमनुयोक्तव्याःकथमेतत् ? वयं तु विस्रसापरिणामेन सर्ववस्तूनामुत्पादादित्रयमिच्छामः प्रयोगपरिणत्या च जीवपुद्गलानाम् , इत्थं तावदस्मदर्शनमविरुद्धसिद्धान्तसद्भावम् , अस्मदुक्ताथानुगुणमेव च भाष्यकारेणाप्युच्यते ॥ भा०-लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य आकाशस्य प्रदेश- - - तु धर्माधमैकजीवैस्तुल्याः ॥९॥ सङ्ख्या टी०-लोकेत्यादि । यद्याकाशशब्देनाकाशमविशिष्टमभिधित्सितं ततोऽनन्तप्रदेशता समीचीना भवेद् , विभागव्याख्यानं च जीवाजीवाधारक्षेत्रं लोकस्ततः पर १ एकयोगकरणे हि जीवास्तिकायस्य जीवसमूहमयस्यासंख्येयप्रदेशत्वं स्यात्, न तु प्रतिजीवं सांकर्यात्, एक. जीवेति प्राकसूत्रे न प्रवेशितम् , यथा दश वर्षसहस्राणि प्रथमायां भवनेषु व्यन्तराणां चेत्यत्र, अन्यथा तत्रापि दश घर्षसहस्राणि रत्नप्रभाव्यन्तरेष्वित्येवं वक्तुं शक्यत्वात्, यथा वा रूपिजीवयोगोपयोगेष्वादिमानित्यपि नोक्तमिति । २ आकाशस्यावगाह इति सिद्धस्याकाशस्योपकाराख्यानं; न तु तेनैव सिद्धिः, तस्य साधनत्वेऽपि च व्याप्यत्वात् न तदभावे आकाशाभावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546