Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
पावार्थाधिगमत्रम्
[अध्यायः ५ ति–नैषां गुणाः सन्तीति निर्गुणाः । एषां ज्ञानादिशुक्लादीनां गुणानां नान्ये गुणाः केचन सन्तीति निर्गुणाः, द्रव्याद् व्यतिरेके सत्येतदुपपद्यते, गुणगुणिनोर्मेद इत्यर्थः । तत् तु नास्त्येकान्तेन । इतिशब्दोत्राव्यतिरेकनयवाक्योपन्यासार्थः । नैषां गुणाः सन्तीति भेदनयप्रधान वचनम् । न च भेदपरमार्थ एव जैनः कृतान्तः, सकलस्य वस्तुनो भेदाभेदरूपत्वात् । यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना शुक्लाद्यात्मना वा तदा द्रव्यस्य तादात्म्याद् गुणानां स्वरूपं भिन्न नास्त्येवेति, एवं च शुद्धद्रव्यास्तिकादेशादनन्यत्वमेव नैर्गुण्यं, पर्यायविवक्षायां तु स्याद् गुणप्रधानत्वात् पर्यायनयस्येति, कदाचिदाशङ्केत परः-सतां गुणानां निर्गुणत्वं चिन्त्यतेऽत्यन्तशुद्धद्रव्यास्तिकपक्षे गुणा एव न सन्ति कुतोऽनन्यत्वमिति ? । उच्यते-न सन्तीत्येतदयुक्तम् , सन्ति गुणाः, किन्तु द्रव्यादव्यतिरिच्यमानस्वरूपाः, तद् यदि द्रव्यं शुक्लाकारेण परिणतं भवति, तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ॥ ४०॥
भा०-अत्राह-उक्तं (सू० ३६ ) भवता-बन्धे समाधिको पारिणामिकाविति । तत्र कः परिणाम इति । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । भवतेदमुक्तं (सू० ३६)-बन्धे समाधिको पारिणामिकाविति, समः समगुणस्य परिणामं विधत्ते, हीनगुणस्याधिकगुणः परिणाममापादयतीति, तथा नामादिसूत्र(१-५)भाष्य इदमभिहितम्-भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते, प्राप्तिश्च परिणामः, स च सकलद्रव्यविषय एव पिपृच्छिषतः, तत्र सूत्रे भाष्ये वाकः परिणामशब्दवाच्योऽर्थो यमङ्गीकृत्येदमुक्तम्-समगुणोऽधिकगुणो वा परिणाममापादयतीति, एवं मन्यते किमर्थान्तरभूतं परिणाम जनयन्त्याहोस्वित् त एव स्वरूपमजहतो द्रव्यविशेषा वैशिष्टयं प्रतिपद्यमानास्तथा भवन्तीति सन्देहभाजा पृष्टे भाष्यकृदाह-अत्रोच्यत इति । किमुच्यते ? यत् पृष्टम् । किश्च पृष्टम् ? परिणामसद्भावः पञ्चविधस्य षड्विधस्य वा द्रव्यस्य धर्मादेः।
सूत्रम्-तद्भावः परिणामः॥ ५-४१ ॥ री०-तस्य भावस्तद्भावः, तस्येति द्रव्यषटकस्याभिसम्बन्धः, तदेव हि धर्मादिद्रव्यं तेन तेनाकारेण भवति, गतिस्थित्यवगाहशरीरादिज्ञानादिवृत्तसमयादिना, भूतिर्भवनमात्मलाभो भावः परिणामः। तस्येति कर्तृलक्षणा षष्ठी, भवतेरकर्मकत्वात् । तान्येव हि द्रव्याणि तथा भवन्ति, न कूटस्थान्यवतिष्ठन्ते, न सर्वथोत्पद्यन्ते, नापि सर्वथोच्छिद्यन्ते, तस्मात् सामान्यरूपः परिणामोऽनुवृत्तिरूपत्वात् , अनुवर्तते हि सर्वत्र गत्यादिषु धमोदिद्रव्यं स्वरूपमजहत् , तथाविधधर्मद्रव्यादीनां समानभावः सामान्यम् , कषष्ठया द्रव्यादय एव समाना भवन्तीति सामान्यमेव, तद्भावलक्षणः परिणामः, इत्येतदेव भाष्येण प्रकाशयति परिणामस्वरूपम् ।। १ 'तद्यदा' इति क-पाठः।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546