Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 481
________________ -- तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ टी-स चैष काल इत्यादि । स इति प्रक्रान्तपरामर्शादेष इत्यनेन सूत्रेणानुसन्धीयते कालः, चशब्दो हेतौ, यसादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समयपरम्परायां सख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसख्यानिरूपणायेदमाह-अनन्तसमय इति । सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत् , ततश्च परिणाम्यपि प्रदेशवत्वात् तद्वदेवेति, तत्रेति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगर्धतृतीयद्वीपसमुद्रद्वयव्यापी ऊध्र्वमधश्चाष्टादशयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमस्साकमेकान्ताग्रहोऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याक रणादर्पितानर्पितसिद्धेः कालतो द्रव्यतश्चार्पितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात् , एकस्य समयस्य कालकृता देशा न सन्त्येव, यथा कालकृतदेशैरनवयव एवं द्रव्यकृतदेशैरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमंतीतसमयकार्य वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वय॑त्यपीत्येकैकसमयस्य द्रव्यता, अतः प्रदेशावयवबहुत्वात् का येव्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैनोस्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपह्नोतुं शक्या, आगमे तु कचित् प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया।न चैकान्तेन नित्यत्वमनित्यत्वं वायुक्तमित्यलं प्रसङ्गेन। प्रकृतमुच्यतेवर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह-समयराश्योः कियती सख्येति ॥ अतीतानागतयोस्त्वानन्त्यम् ॥ अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्त. त्यैव, अनन्तस्य भाव आनन्त्यं-सङ्ख्याख्यो गुणः, स च न सख्येयसङ्ख्या नासख्येयसइख्येति, किं तर्हि ? अनन्तसइख्यैव, तुशब्दः समुच्चये । अतीतोऽनागतश्च समयराशिरनन्त इति, सौ चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पश्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः, सिद्धेभ्योऽतीतसमयराशिरसख्येयगुणः, असाद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वत्स्येत्समयाः, इत्येतदल्पबहुत्वमस्तिकायपञ्च( त्व एव ) कालद्रव्यस्य घटत इति ॥ ३९ ॥ भा०-अत्राह-उक्तं( अ० ५, सू० ३७) भवता-गुणपर्यायवद् द्रव्यमिति । तत्र के गुणा इति । अत्रोच्यते ... टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमावेदयति । द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति । , 'मतीतः समय' इति क-पाठः । ३ 'म्य' इति क-पाठः । ३ ‘स चा' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546