Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 479
________________ ४३२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ तसान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयावलम्बित्वं चैवं स्यात् , अतोऽनर्पितद्रव्यनयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तरसमयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किश्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् , न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, ध्रौव्यं तयोराधारस्तस्मिन् सति तयोर्भावादिति । यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव, अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, षष्टिवर्षाद् वर्षशतिकः परापरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः षष्टिवर्षाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं चानपेक्षमित्युक्तम्, तसात् कालापेक्षे परत्वापरत्वे न भवतः, योगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तृणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम् , न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्योऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैक: कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि को तथैव तक्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् ॥ तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति ॥ अथ करसादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते-विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आर्ष हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दर्शयत्येकनयप्रवृत्तेः । न च जैने प्रवचने कश्चिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यलः, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽस्ति किमिदं भंते ! कालोत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव" । इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सत्रार्थः, कलनं काल:-प्रतिविशिष्टपर्यायोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स च वर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थ या प्रचोकालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वतिष्ठाः हेतुमण्णिचि "ण्यासश्रन्थो युच्" (पा० ___ अ०३, पा० ३, सू० १०७) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्थी वादनान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिर्द्रव्यार्थाभेदविवक्षायाम्, नहि वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तत्वादान १' यतो वर्तमान ' इति क-ख-पाठः। २ 'प्रसृतेः ' इति क-पाठः। ३ 'समस्तवस्तु' इति क-पाठः । ४ किमिदं भदन्त ! काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । ५ "समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पवुचद " इति पाठस्तु स्थानाङ्ग (सू० ९५)। ६' द्रव्यस्यैव पर्याया' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546